SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारे कलावतीकथा ] तत्राप्याह नृपो मां ते निर्निमित्तोपकारिणः । प्रत्युक्रियते राज्यं तदपि स्तोकमेव हि ॥५९॥ तथाप्येकसुतस्यासि सूनुस्त्वमपरो मम । धुर्यावेवमिमां राज्यधुरां वोढुं युवामतः ॥६०॥ इत्थं बहुमतो राज्ञा कुमारेणप्यहं तथा । यथा न मातृपित्रादिबन्धूनामुदकण्ठिषि ॥६१॥ किञ्चास्य काश्यपीभर्त्तुः श्रीदेवीकुक्षिसंभवा सुता कलावतीत्यस्ति सल्लावण्यकलावती ॥६२॥ विद्यातः शारदेवान्या कान्तितः श्रीरिवापरा । रती रूपाद् द्वितीयेव या सृष्टेर्निकषो विधेः ||६३॥ यथा यथा समारोहत् तारुण्ये सा कलावती । नृपस्तद्वरचिन्तायां निममज्ज तथा तथा ॥६४॥ प्रत्यज्ञासीत् पितुः पार्श्वे परं स परमार्हती । परिणेष्यामि तं यो मे ज्ञाता प्रश्नचतुष्टयम् ॥६५॥ इति मत्वा महीपालः स्वयंवरणमण्डपम् । तत्कृते कारयामास नृपांश्चाह्वास्त सर्वतः ॥६६॥ अहं तु प्रेषितः स्वामिंस्तवानयनहेतवे । पुरापि गाढमापृच्छन् पितरौ द्रष्टुमात्मनः ॥६७॥ ततोऽहं कौतुकाद् देवोपायनाय समानयम् । इदं कलावतीरूपं कृत्वा चित्रपटे स्फुटे ॥६८॥ यावत् कलावतीरूपं न तावदिह वर्तते । कीदृशी हि प्रभा भानोः प्रतिबिम्बमुपेयुषः ? ॥६९॥ किन्त्वेतद् वर्णिकामात्रमत्रानीतं मया विभो ! | योग्येयं देवपादानां यदि वेधाः प्रसीदति ॥७०॥ [ ५१७ 5 10 15 20
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy