SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ ५१६] [विवेकमञ्जरी यथा यथाऽहमकृषं वल्गया तं हयं जवात् । तथा तथाऽन्यथाशिक्षस्त्वरते स्माधिकाधिकम् ॥४७।। पश्यतां तातपादानां धावतामपि पृष्ठतः । हरिस्तदा हरिश्चन्द्रपुरीवाभूददर्शनः ॥४८॥ तेनाहं वल्गयाऽऽकृष्टेनापि दुष्टेन वाजिना । दुर्वातेनाम्बुधौ पोत इवारण्येऽत्र पातितः ॥४९॥ श्रान्तोऽहममुचं वल्गां तत्क्षणं च स्थितादतः । समुत्तीर्णो यदा प्राणा अपि तं मुमुचुस्तदा ॥५०॥ स्वामिन्नहमपि प्रौढश्रमात् तापतृषातुरः । तदा परासुवत् पृथ्व्यामपतं मीलितेक्षणः ॥५१॥ ततः परमयं साधुमूर्धन्यो मामजीवयत् । तेनेति जल्पता पृथ्वीपतये दर्शितोऽस्म्यहम् ॥५२॥ मयाथ प्रणत: पृथ्वीपतिौमित्यभाषत । वत्स ! केनोपमामि त्वां निर्निमित्तोपकारिणम् ? ॥५३॥ बतोपकुरुतो विश्वं घनचन्द्राविमौ पुनः । उपजीव्यामृतं सिन्धोरेकोऽन्योऽपि च भास्वतः ॥५४॥ इमौ च सागरादित्यौ यदि स्वेनोपकारकौ । मुखेन क्षार एवैकोऽपरः संतापनः पुनः ॥५५॥ ततोऽनवकरस्फारोपकारोदारकीर्तयः । . त्वादृशास्त्वादृशा एव तद् ब्रूमः किमतः परम् ? ॥५६॥ प्रशंसन्निति मां गाढमालिङ्ग्याङ्के निवेश्य च । जयसेनाग्रजत्वेन प्रत्यपद्यत भूपतिः ॥५७॥ सूत्रयित्वा ततः सार्थरक्षामक्षामसौहृदः । आत्मना सह मां देवो देवशालपुरेऽनयत् ॥५८॥
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy