SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ [५१५ गुणानुमोदनाद्वारे कलावतीकथा] हेयानां हेषितं वीरनिस्वनं च प्रतिस्वनैः । तदाऽशृणुव सर्वासु दिक्षु विस्मितमानसौ ॥३५॥ पल्लीपतीनामास्कन्दशङ्कयैकत्र गह्वरे । सार्थं निवेश्य चास्थाव विधाय रचनां भटैः ॥३६।। यावद् दृष्टं पुरस्तावद् वाताश्विद्वयमाययौ । सार्थेशं साहसेनालमलमित्यालपद् मुहुः ॥३७॥ कथ्यतामिह कान्तारे कोऽपि सादी विलोकितः ? | पृच्छतेति च दृष्ट्वैष हर्षात् तेनेदमौच्यत् ॥३८॥ अद्यापि सुकृतं देव ! दिष्ट्याऽस्माकं प्रवर्तते । भूभृद्विजयसूनो ! यज्जयसेनाऽसि वीक्षितः ॥३९॥ वदन्ताविति सानन्दं सादरं सादिनाविमौ । बाष्पाम्भोभिः समं तस्य पादयोरेत्य पेततुः ॥४०॥ अथ पृथ्वीपतिस्ताभ्यां ज्ञात्वा वृत्तान्तमञ्जसा । कुमारमाययौ हर्षबाष्पाविलविलोचनः ॥४१॥ दूरादपि समायान्तं दृष्ट्वात्मजनकं ततः । मुक्त्वा सुखासनं गत्वा पादचारेण सोऽनमत् ॥४२॥ पतितं पादयोरेनमूर्वीकृत्य महीपतिः । श्लिष्यन् रोमाञ्चितोऽचुम्बदजिघ्रदपि मूर्धनि ॥४३।। प्रहृष्टमनसा पृष्टः सादरं मेदिनीभृता । स्ववृत्तान्तमथाचख्यौ कुमारः सुकुमारगीः ॥४४॥ हयं तदाहमारुह्य कृतासनपरिग्रहः । ऊरुभ्यां प्रेरयन् सद्यो रयं चक्रे पदैरयम् ॥४५॥ जेतुं वायुमिवायं तत्पथेनैव ययौ बहु। अङ्गारकसवित्रीति धरित्रीमस्पृशन् पदैः ॥४६॥
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy