________________
५१४]
[विवेकमञ्जरी
किमेष चन्द्रमा नैव स यस्माद् मृगलाञ्छनः । विष्णुर्वा नैव यत्तार्थ्यवाहनोऽयं तु वाजिभृत् ॥२३॥ अयं हरिर्हरस्तर्हि नाप्यसौ नयनोत्करः । तत्कः स्यादेष जानामीत्यस्यागां सविधे ततः ॥२४॥ अतुच्छमूर्च्छया कण्ठोपकण्ठगतजीवितम् । असिञ्चमम्भसा तं च पयोद इव शाखिनम् ॥२५॥ विकासिनयनस्तोयं ततोऽयं पायितो मया । प्रीणितश्च क्षुधा क्षामो मधुराहारवस्तुभिः ॥२६॥ कस्त्वं क्वत्यः किमेकाकी विपिनेऽत्र समागमः ? । इति पृष्टो मयाऽवादीदात्मवृत्तमयं ततः ॥२७॥ राज्ञो विजयसञस्य देवशालपुरेशितुः । निदेशपुरुषोऽस्म्यत्र वाजिना पातितो वने ॥२८॥ उपकारिंस्त्वमाख्याहि स्वं कुत्र चलितोऽसि च ? । तेनेति गदितोऽवोचं प्राप्तः शङ्खपुरादहम् ॥२९॥ देवशालं व्रजन्नस्मि तदध्यास्स्व सुखासनम् । सतां चिन्तायिकः संपत्स्वापत्सु विधिरेव यत् ॥३०॥ इत्यावां चलितावग्रे सुखासनसुखासितौ । वार्तयन्तौ मिथः पल्लीं गतावेकतमां ततः ॥३१॥ भीमां भल्लूकहिक्काभिरूर्जितां गजगजितैः । पूर्णां पारीन्द्रबूत्कारैः क्षुण्णां च कपिखीत्कृतैः ॥३२॥ अनेकवृक्षविटपासूर्यंपश्यवनेचरम् । कुल्यासहस्रकलितामन्तकोपनीमिव ॥३३॥ विशेषकम् ।। सार्थं संवर्मितैीरैर्गोपायन्तौ समन्ततः । यावदने प्रयान्तौ स्वस्तत्रावामप्रमद्वरौ ॥३४॥