________________
[५१३
10
गुणानुमोदनाद्वारे कलावतीकथा]
अथ दत्तोऽवदद् वच्मि देवशालस्य देव ! किम् ? | वक्तुमेकैव जिह्वा मे तस्य वाच्यं त्वनेकधा ॥११॥ अनेकैरीश्वरैः पुण्यजनैश्च पुरुषोत्तमैः । गौरीभिरपि नैकाभिः स्वर्गाद् यदतिरिच्यते ॥१२॥ यद्वा किं बहु देवोऽपि स्वयमेकं विलोकताम् । आश्चर्यवर्णिकारत्नं तस्येन्दुमिव नीरधेः ॥१३॥ दत्तो दत्तभ्रममिति ब्रुवन्नुर्वीशतक तोः । आकृष्य स्वपटीमध्यार्पयच्चित्रपट्टिकाम् ॥१४॥ तामादाय स्वयं स्मेरवदनो मेदिनीपतिः । अपश्यत् तत्र चित्रस्थां काञ्चित् कुञ्चितलोचनाम् ॥१५॥ तदालोकसुखस्यन्दनिस्पन्दे नृपतौ तदा । रोमाञ्चदण्डैराक्षेपि कापि शङ्का सभासदाम् ॥१६।। तामालोक्य चिरेणोच्चैर्नृपः स्वापादिवोत्थितः । अथाह दत्तं नेहक् स्याद् नारीयममरी कथम् ? ॥१७॥ दत्तोऽभ्यधादयं देव ! न देवी किन्तु मे स्वसा । पुनः साश्चर्यमूचे तं नृपः कथमिवोच्यताम् ? ॥१८॥ दत्तोऽब्रवीदथो देव ! श्रूयतां यदि कौतुकम् । आपृच्छ्य तातमचलं वाणिज्याय पुरादतः ॥१९॥ गृहीतानेकभाण्डोऽहं सार्थेन महतान्वितः । देव ! यावद् व्रजन्नस्मि देवशालपुरं प्रति ॥२०॥ विपिने तावदेकस्मिन् शयितं वर्त्मसीमनि । एकं पुरुषमद्राक्षं विपन्नासन्नवाजिनम् ॥२१॥ तस्य रूपं निरूप्याहमचिन्तयमनेकधा । युवा किमेष पञ्चेषुर्न स यद् मकरध्वजः ॥२२॥