________________
५१२]
[विवेकमञ्जरी शिवा तु चेटकनृपसुता चण्डप्रद्योतपाणिगृहीतीत्यभयकुमारकथायां कथितैव, धारिणी तु चन्दनबालामाता 'मम भोगपत्नी भविष्यति' इत्यौष्ट्रिकवचनाकर्णनसमकालमेव त्यक्तजीवितेति विदितैव । चेल्लणादेवीप्रभावत्यौ चाभय
कुमारकथायामुपदिष्टे । अथ कलावती यथा -- 5 $ अस्ति मङ्गलदेशोर्त्यां महाशङ्खनिधानवत् ।
पुरं शङ्खपुरं नामासंख्यलक्ष्मीनिकेतनम् ॥१॥ सदाकरजपातारस्फारकेलिमहा बहिः । यत्रोद्यानगणेऽन्तश्च व्यरुचन्मानवा नवाः ॥२॥ नृपोऽत्र शङ्ख इत्याप्तशब्द: संख्येषु भूरिषु । आसीच्चित्रं तु पुरुषोत्तमहद्विहित स्थितिः ।।३।। करालवालस्थितया नखांशुजलसिक्तया । यस्यासिलतया कीर्तिप्रसूनश्रीरसूयत ॥४॥ तमास्थानस्थितं दत्तः प्रतीहारनिवेदितः । गजश्रेष्ठिसुतोऽनंसीदुपदापाणिरन्यदा ॥५॥ दत्तासन्नासनासीनं तमथाह महीपतिः । वपुस्ते दत्त ! नीरोगं किं चिरेण विलोक्यसे ? ॥६॥ सोऽभ्यधत्त सुधावृष्टौ स्वामिदृष्टौ क्व मे गदाः ? । चिराय दर्शने किन्तु कारणं श्रूयतामदः ॥७॥ $$ देवशालपुरे देव ! वाणिज्यायाभवं गतः ।
बाल्य एवोपभोग्यं यद् मातुः स्तन्यं धनं पितुः ॥८॥ हंसाश्च सत्पुमांसश्च द्वय एव निजाश्रयम् । हित्वा नृप ! निरीक्षन्ते नानाश्चर्यधरां धराम् ॥९॥ ब्रुवन्तमिति साकूतमनेमुद्भूतकौतुकः । नृपोऽब्रवीत् त्वया तत्र चित्रं किमपि वीक्षितम् ? ॥१०॥