________________
[५११
गुणानुमोदनाद्वारे नर्मदासुन्दरीकथा]
इतश्चार्यसुहस्त्यागादितः सोऽप्यादित व्रतम् । ऋषिदत्तान्वितस्तप्त्वा तपो मृत्वा दिवं ययौ ॥२०५॥ मत्वायुःक्षयमात्मनोऽतिनिकटं सापि स्वयं नर्मदा, निर्मायानशनेन मृत्युमसमं स्वराज्यमास्ते गता। च्युत्वाऽतश्च मनोरथोऽपरविदेहो| महोर्वीपतिभूत्वाऽऽत्त्वा व्रतमष्टकर्मनिधनं कृत्वा दिवं यास्यति ॥२०६॥
॥ इति नर्मदासुन्दरीकथा ॥