________________
5
10
15
20
५१० ]
ततोऽमुं निश्चलं मत्वा सम्यग्दृष्टिरभूदियम् । च्युत्वा चैषा भवत्पुत्री नर्मदासुन्दरीत्यभूत् ॥१९३॥ अतः पूर्वभवाभ्यासाद् नर्मदा प्रियनर्मदा । साधूपसर्गदुष्कर्मोदयादजनि दुःखिनी ॥१९४॥ श्रुत्वेति नर्मदा जातजातिस्मृतिरुपाददे ॥ व्रतं क्रमात् तपस्यन्ती जातावधिरजायत ॥१९५॥ प्रवर्त्तिनीपदं लब्ध्वा कूपचन्द्रपुरं गता । ऋषिदत्ताप्रदत्तोपाश्रयेऽस्थाद् व्रतिनीवृता ॥१९६॥ तत्र धर्मं समादिक्षद् नर्मदा कर्मदारणम् । स महेश्वरदत्तश्च ऋषिदत्तापि साऽशृणोत् ॥१९७॥ सा महेश्वरदत्तस्य संवेगायान्यदाऽपठत् । स्वरलक्षणमक्षूणमक्षीणनरलक्षणम् ॥१९८॥ महेश्वरो निशम्यैतत् पश्चात्तापादिदं जग 1 सापि नूनमतः शास्त्राद् विवेद नरलक्षणम् ॥१९९॥ ततोऽधमाधमं धिग् मामविमृश्यविधायिनम् । येन सैकाकिनी कान्ता सती मुक्ता वनान्तरे ॥ २००॥
अद्रष्टव्यमुखोऽहं तदभाष्योऽहं मनीषिणाम् । दैव ! रे कैव रेखाsस्ति मत्तः कस्यापि पापिषु ? || २०१ ॥ विलपन्तमिति प्रोचे कृपया तं प्रवर्तिनी ।
मा विषीद महाभाग ! सैवाहं नर्मदा पुरः ॥ २०२॥
सर्वोऽपि हन्त जन्तूनां कर्मादिष्टो विचेष्टते ।
नातस्ते कोऽपि दोषोऽस्ति 'स्फरे वैरं स्फुरेद् न हि' ॥२०३॥
तां महेश्वरदत्तोऽथ क्षमयामास भक्तितः ।
उवाच च ग्रहीष्यामि व्रतं भग्नो भवादहम् ॥ २०४॥
[विवेकमञ्जरी