________________
गुणानुमोदनाद्वारे नर्मदासुन्दरीकथा ]
अरोप्य वाहने चैनां भृगुकच्छे समागमत् । ततोऽपि च गृहीत्वैष नर्मदापुरमीयिवान् ॥१८१॥ ज्ञात्वा समागतामभ्याजग्मुस्तां जनकादयः । प्रणम्य सापि तानेषां कण्ठमालम्ब्य चारुदत् ॥१८२॥ पितामहः पिता माता पितृव्योऽस्याः परिऽपि हि । दिष्ट्या तामाप्य जीवन्तीं पुनर्जन्मोत्सवं व्यधुः ॥१८३॥ पूजां जिनालयेषूच्चैरनघं सङ्घपूजनम् । चक्रुः साधर्मिकाणां च वात्सल्यं ते तदागमे ॥ १८४॥ जिनदेवस्तु कतिथदिनान्तेऽथ कथञ्चन ।
आपृच्छ्य वीरदासादीन् प्रत्यागाद् भृगुपत्तनम् ॥१८५॥ $$ इतश्च विहरन्नुर्व्यामनेकयतिसंयुतः ।
गुरुरार्यसुहस्त्यागात् कदाचिद् नर्मदापुरे ॥१८६॥ अथो ऋषभदासाद्याः सर्वद्ध्र्योद्यानमागताः । प्रणम्य सुगुरोः पादान् यथोचितमुपाविशन् ॥ १८७॥ धर्मलाभाशिषं दत्त्वा तेभ्यस्तत्त्वकिरा गिरा । चतुर्धा धर्ममदिशद् दशपूर्वघरो गुरुः ॥ १८८ ॥ अत्रान्तरे गुरुं नत्वा वीरदासो व्यजिज्ञपत् । प्रभो ! किं कर्म चक्रेऽसौ नर्मदा पूर्वजन्मनि ? ॥ १८९ ॥ "गुरुः श्रुतोपयोगेन जगादास्तीह भारते । द्यावाभूम्यन्तरामानदण्डो विन्ध्याचलः किल ॥ १९०॥ नदी तस्मात् प्रभूतेयं नर्मदा वेणिवद् भुवः । आसीदस्यामधिष्ठात्री देवता सापि नर्मदा ॥१९१॥ मिथ्यादृष्टिरसौ धर्मरुचिनाम्नो मुनेर्व्यधात् । सरित्तीरं गतस्योच्चैरुपसर्गाननेकशः ॥१९२॥
[५०९
5
10
15
20