________________
गुणानुमोदनाद्वारे नर्मदासुन्दरीकथा ]
नर्मदा निर्गमोपायं ध्यात्वाऽमन्यत तद्वचः । सोऽपि तां तत्पदे कृत्वा जगाम नृपधामनि ॥ १५७॥ तदीयरूपलावण्यमाकर्ण्य सचिवाद् नृपः । प्रजिघाय समानेतुमेतामथ सुखासनम् ॥१५८॥ सुखासनं समारोप्य विधृतातपवारणम् । पुरमध्येन भूपालभृत्या यावद् नयन्ति ताम् ॥१५९॥ दध्यौ सा नर्मदा तावज्जीवन्त्या मे न लुम्पति । शक्रोऽपि शीलमन्येषां वराकाणां कथैव का ? ॥१६०|| तथापि कः किलोपायो हुं वैकल्यमिति क्षणात् । निर्धार्य वीक्ष्य च पुरः क्षालगर्तमिहापतत् ॥ १६१॥ कटनेपालदेशीया कस्तूरीति प्रलापिनी । पङ्कतिं शीलरक्षार्थमङ्गे वर्मेव साऽग्रहीत् ॥ १६२॥ स्मरेण सह सन्धानपत्राणीव सुविग्रहा । पाटयामास वस्त्राणि समक्षं जगतोऽपि सा ॥ १६३ ॥ अन्तर्मन्त्रकलापूर्वं परितो योगिनीव सा । धूलिमुल्लालयामास भुजङ्गत्रासहेतवे ॥१६४॥ उपायः साधु लब्धोऽयं शीलरक्षाकृते मया । इतीव नृत्यमातेने वर्णयन्ती तदात्मना ॥ १६५ ॥ अथ राजा तदाकर्ण्य प्राहिणोद् मन्त्रवादिनः । तानयं कुयामास लेष्टुभिर्भषणानिव ॥ १६६ ॥ दूरेण तत्यजुस्तां ते मान्त्रिका विषया इव । भूतैरिव प्रभूतैस्तु साऽभ्रमत् पृथुकैर्वृता ||१६७|| अथासौ जिनदेवेन दृष्टा निर्माल्यमण्डना ।
नृत्यन्ती डिम्भकुण्डान्तर्गायन्ती जिनरासकान् ॥१६८॥
[५०७
5
10
15
20