________________
५०६]
[विवेकमञ्जरी
5
10
तन्मित्रं श्रावकस्तत्र जिनदेवोऽस्ति विश्रुतः । आख्याय सर्वमप्यस्मै वीरदासोऽभ्यधत्त तम् ॥१४५॥ त्वं याहि तत्र सर्वत्र तामालोक्य समानयेः ।
तेनेति सोऽथितः कृत्वा सामग्री तत्र यातवान् ॥१४६।। $ इतश्च वीरदासं तं गतं विज्ञाय वेश्यया ।
हिरण्यार्थं हरिण्या सा नर्मदाऽवादि सादरम् ॥१४७॥ भद्रे ! भजस्व वेश्यात्वं भोगान् मानय भूरिशः । मदीयसदनश्रीणां त्वमेव स्वामिनी भव ॥१४८।। अथाह नर्मदा हस्तौ धुन्वती तन्वतीव सा । मैवं वोचः शुभे ! शीलशैलव्रजोपमं वचः ॥१४९।। अथाह वेश्या वेश्यात्वं दुर्गं स्वर्गस्थयोषिताम् । विनैतद् दुर्जनाज्जातरण्डात्वनरकोदयः ॥१५०।। अथाह नर्मदा पांशुपर्वराज्योपमं ह्यदः । स्त्रीणां शीलं त्विहामुत्र सिद्धिसंवननौषधम् ॥१५१॥ तद्वाक्येन जितम्मन्या कुपिता हरिणी ततः ।। ताडयामास तां मूढा पीयूषायेन्दुरत्नवत् ॥१५२॥ विनष्टं न किमप्यद्याप्यङ्गीकुरु वचो मम । हरिण्योक्तेति साऽवादीद् नेत्येतां सा त्वकुट्टयत् ॥१५३॥ मर्मावित्कुट्यमाना साऽस्मार्षीत् पञ्चनमस्कृतिम् । तत्प्रभावादियं वेश्या पञ्चामञ्चति स्म च ॥१५४॥ राजा तन्मृत्युमाकाज्ञापयद् मन्त्रिणं ततः । तत्पदे तद्गुणां काञ्चिदन्यां सचिव ! सञ्चिनु ॥१५५।। राजादेशादसावेत्यामात्योऽभाषिष्ट नर्मदाम् । हरिणाक्षि ! नृपाज्ञातः श्रय त्वं हरिणीपदम् ॥१५६।।