________________
[५०५
10
गुणानुमोदनाद्वारे नर्मदासुन्दरीकथा]
अत्रान्तरे हरिण्यै सा चेटी कर्णगताऽवदत् । यदस्य गेहे गृहिणी स्वसा वा दुहितापि वा ॥१३३॥ सुलोचनास्ति यदि सा त्वदाज्ञाकारिणी भवेत् । तदा ते भवने संपद् भुवनस्यापि किं बहुः ? ॥१३४॥ युग्मम् ।। श्रुत्वेति मुदितोत्पन्नमतिः सा हरिणी ततः । वीरदासमयाचिष्ट प्रतिच्छन्दीयमुद्रिकाम् ॥१३५।। सोऽपि तामार्पयद् मुग्धस्तस्यै साप्याशु मुद्रिकाम् । समर्प्य गूढमन्त्रेण सह दासी व्यसर्जयत् ॥१३६।। सा गत्वा नर्मदामूचे शुभे ! श्रेष्ठ्यस्ति नो गृहे । द्रुतं त्वामाह्वयत्येकां साभिज्ञानेऽत्र मुद्रिकाः ॥१३७।। नामाङ्कां वीरदासस्य मुद्रामालोक्य नर्मदा । निर्विकल्पा तथा सार्धं ययौ तस्या निकेतनम् ॥१३८॥ अपद्वारेण तां सद्यः प्रवेश्योर्वीगृहेऽक्षिपत । मुद्रिकां वीरदासस्यार्पच्च हरिणी ततः ॥१३९।। उत्थायासौ ततः प्राप्तोऽक्षतशीलो निजालयम् । अपश्यन् नर्मदां तत्र पप्रच्छ स्वपरिच्छदम् ॥१४०॥ तत्प्रवृत्तिमजानानः कोऽपि नास्मै न्यवेदयत् । नष्टाङ्गामिव तां सोऽपि सर्वत्राप्यगवेषयत् ॥१४१॥ ततोऽपश्यन्नयं दुःखी हृद्युपायमचिन्तयत् । योऽहार्षीत् कथमेतां स पुरः प्रकटयेद् मम ? ॥१४२॥ तदहं यामि येनायं दुष्टः प्रकटयेदिमाम् । निर्धार्येति स भाण्डानि गृहीत्वाऽऽपृच्छ्य भूपतिम् ॥१४३।। आपूर्य यानपात्राणि चलितः स्वपुरं प्रति । भृगुकच्छं समागच्छदतुच्छश्रीनिकेतनम् ॥१४४।।
15
20