________________
५०४]
[विवेकमञ्जरी
स्तुवत्या जिनमाकर्ण्य तस्या मधुकिसे गिरः । नर्मदा किमसावित्याश्चर्यादेषोऽविशद् गुणे ॥१२१॥ सा च दृष्ट्वा पितृव्यं स्वं विलम्ब्यास्य गलेऽरुदत् । शोकानन्दकदुष्णाश्रुः सोऽप्यभूदुपलक्ष्य ताम् ॥१२२॥ पृष्टा सा तेन हा वत्से ! किमेकेहागमः कुतः ? । इति सा सर्वमेतस्मै स्ववृत्तान्तमचीकथत् ॥१२३।। विपाकं दुर्विधेनिन्दन्नयमादाय नर्मदाम् । ययौ बर्बरकूलेऽनुकूलेन मरुता यतः ॥१२४|| तत्रोत्तार्य क्रयाणानि कारितांशुकमण्डपः । सदूष्यां नरदूष्यां तां नर्मदासुन्दरी व्यधात् ॥१२५॥ उपायनमुपदायाद्राक्षीदेष नृपं ततः ।
अर्धदानीकृतस्तेन स्वावासानाययौ पुनः ॥१२६।। 88 इतश्च तत्र वेश्यास्ति हरिणी नाम विश्रुता । मेनका वर्णिकामात्रं यस्यास्त्रिदशपत्तने ॥१२७॥ आदत्ते सा महीपालप्रसादविहितं स्थितम् । सायांत्रिकेभ्यो दीनारानष्टोत्तरसहस्रकम् ॥१२८॥ सा चेटी प्राहिणोद् वीरदासमाह्वातुमन्यदा । तयाऽऽहूतोऽब्रवीदेष स्वदारैकव्रता वयम् ॥१२९।। आगन्तव्यं तथापीति सोचे दक्षस्त्वयं ददौ । दीनारांस्तानुपादाय हरिण्यै सापि चार्पयत् ॥१३०॥ हरिण्याह किमेतै रे तमेवेभ्यमिहानय । इत्याहूतोऽनया भूयः समागादयमप्यथ ॥१३१॥ हरिण्यासौ करिण्येवारब्धश्चालयितुं ततः । तथापि नाचलद् देवाचलवद् निश्चलस्थितिः ॥१३२।।