SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ [५०३ गुणानुमोदनाद्वारे नर्मदासुन्दरीकथा] रथाङ्गया अपि भर्ता स्यात् कुतोऽपि मिलिनोऽधुना । एहि त्वमपि तद् देहि सदास्यो दर्शनं मम" ॥१०९॥ रुदती विलपन्तीति तं प्रत्यद्रि प्रतिद्रुमम् । प्रतिमार्गं च मार्गन्ती पञ्चाहीं सात्यवाहयत् ॥११०॥ तथैव च भ्रमन्ती सा षष्ठेऽहनि पयोनिधेः । तीरे तत्र ययौ यत्र यानपात्रं व्यलञ्च्यत ॥१११॥ तत्रापि शून्यमालोक्य विवेकादित्यचिन्तयत् । पूर्वकर्मोदयः सोऽयं 'न मुनेरन्यथा गिरः' ॥११२॥ आत्मन् ! कर्म तदायातं यत् पुरा जनितं त्वया । सम्यक् सहस्व मा रोदीरदीनहृदयो भव ॥११३॥ आत्मानमात्मनैवेति संबोध्यागस्य पल्वले । स्नात्वा देवांश्च वन्दित्वा फलाहारं चकार सा ॥११४॥ "ततोऽसौ गह्वरे क्वापि मृण्मयं बिम्बमार्हतम् । स्थापयामास मनसो दृशोश्चालानहेतवे ॥११५॥ पुष्पैः फलैश्च नीवारैरिगुन्दीतैलदीपकैः । सार्चयन्ती स्तुवन्ती च दिवसानत्यवाहयत्" ॥११६।। अन्यदाऽचिन्तयदिदं भारते गम्यते यदि । तदा व्रतमुपादायोत्तमार्थः साधु साध्यते ॥११७॥ चिन्तयित्वेति सा भग्नयानतापिशुनं परम् । चिह्नमुत्तम्भयामास तीरे नीरेशितुस्ततः ॥११८॥ अत्रान्तरे पितृव्योऽस्या यान् कुलं बर्बरं प्रति । वीरदासो विलोक्यैतच्चिद्रं यानादवातरत् ॥११९।। वृतः कतिपयैर्गर्भपादान्तैः पदपद्धतीन् । दर्श दर्शं ययौ तत्र यत्रास्ते सा महासती ॥१२०॥
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy