SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ ५०२] [विवेकमञ्जरी शब्देष्वपि कृतेषूच्चैर्यावन्नायमुपाययौ । शङ्कितोत्थाय सा तावत् पर्यन्तेषु न्यभालयत् ॥९७।। तत्राप्यदृष्ट्वा तं बाष्पाविलग् विललाप सा । एह्येहि स्फुटतीवेदं त्वदृते हृदयं मम ॥९८॥ श्रुत्वात्मलपितस्यास्य कन्दरासु प्रतिस्वनम् । आकारयति मां कान्त इति भ्रान्त्याऽभ्यधावत ।।९९।। कर्करस्थलशृङ्गाटकण्टकैदर्भसूचिभिः । भिद्यमानक्रमस्राविरुधिरोत्फालगामिनी ॥१००॥ वेशं वेशं गिरिगुहा भ्रामं भ्रामं वनानि च । पुनरेत्य निजं कुजं तारतारं रुरोद सा ॥१०१॥ अत्रान्तरे रवि द्वीपान्तरेऽगात् त्वरितक्रमः । कर्म प्रष्टुमिवैतस्याः सीमन्धरविभोः पुरः ॥१०२॥ साञ्जनाश्रुदलश्यामं किरन्त्यस्तिमिरं तदा । तदुःखादिव चक्रन्दुः ककुभः ककुभस्वनैः ॥१०३॥ .. दुःखमूर्छामपाकर्तुमिवैतस्याः सुधाकरः । उज्जगाम तदा युक्तत्रिजातस्य तस्य तत् ॥१०४॥ रोदं रोदमसौ खिन्ना निलीयाधिलतागृहम् । कोटियामामिव तदा त्रियामां तामयापयत् ॥१०५॥ विभातायां विभावर्यामुदिते च विभाविभौ । स्मारं स्मारं पतिगुणान् रुदती व्यलपत् पुनः ॥१०६।। "हा नाथ ! धुसरित्पाथ:पवित्रचरिताद्भुतः । हा सदा स्मेरवदनापहस्तितसरोरुहः ॥१०७।। दीनामशरणामेकामेकान्तस्नेहमोहिताम् । हा विदाय त्वं विपिने निर्जने मामगात् क्व नु? ॥१०८।।
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy