________________
[५०१
गुणानुमोदनाद्वारे नर्मदासुन्दरीकथा]
तद्भर्ता मायिकः पापी चिन्तयामासिवानिति । मुञ्चाम्येनामिह यथा यूकेवार्त्तिपरा सती ॥८५।। स्वयमेव म्रियेतासौ स्मरन्त्यन्यायमात्मनः । तीव्रघातहता हन्त निजमागः स्मरेत् कुतः ? ॥८६।। चिन्तयित्वेति शनकैरुत्थाय शुनको यथा । पलायिष्ट निकृष्टोऽसौ प्रालपद् यानमागतः ॥८७॥ अथ सांयात्रिकैः पृष्टो भ्रातः ! किमिति रोदिषि ? । सोऽब्रवीद् मे समागत्य रक्षसाऽभक्षि सा प्रिया ॥८८॥ प्रणश्याहं तु हन्तेह प्राप्तस्तद्यानमञ्जसा । पूर्यतामन्यथा रक्षोऽभ्येत्व वो मारयिष्यति ॥८९॥ श्रुत्वेति तेऽपि संभ्रान्ता पूरयामासुराशु तत् । रुरोद स तु शोकीव कुट्टयन् वपुरात्मनः ॥१०॥ अचिन्तयच्च विहितं द्वयमद्य हितं मया । स्वैरिणी मारिता सापि जनवादश्च रक्षितः ॥९१॥ अथ सांयात्रिकैरन्येबौधं बोध कथञ्चन । विशोक इव क्लृप्तोऽसौ जवनद्वीपमभ्यगात् ॥१२॥ वाञ्छितं लाभमादाय ततोऽपि स्वपुरं गतः । असौ पित्रोः पुरः शोकीवाख्यद् रक्षोहतां प्रियाम् ॥९३॥ नर्मदासुन्दरीप्रेतकार्यं कृत्वातिदुःखितौ ।
कन्यामन्यामथो पर्यणायिषातामनेन तौ ॥९४॥ $$ इतश्च नर्मदा यावज्जागर्युन्मिषितेक्षणा ।
स्वभावसरला तावद् न पश्यति निजं पतिम् ।।१५।। निलीनः परिहासाद् मे प्रियः क्वापीति मन्वती । एह्येहि नाथ नाथेति निर्व्याजा व्याजहार सा ॥१६॥