________________
५००]
[विवेकमञ्जरी
स श्यामदेहः स्थूलांहिकेशोऽतिसात्त्विकः । द्वात्रिंशद्वर्षदेशीयः पृथुवक्षःस्थलः किल ॥७३॥ गुह्योऽस्य मशकः शोणोऽस्त्वंसदेशे च लाञ्छनम् । - इत्याकर्ण्य वचस्तस्याः पतिरेवमचिन्तयत् ॥४॥ "नूनमेषाऽमुना सार्धमत्स्यवस्थितमानसा । न वेति यदि तद् वेत्ति कथमस्याङ्गलक्षणम् ॥७५॥ आसीत् पुरा मम हृदि श्राविकेयं महासती । परं कुलद्वयस्यापि यश:कुसुमधूमरी ॥७६।। कुलीनाभ्योऽपि कः स्त्रीभ्यः प्रत्येति मतिमान् यतः । नदोऽब्जिनीकुमुदिन्योर्भर्ताऽर्केन्दू तु वल्लभौ ॥७७॥ ज्ञायते न भवे नृणामसती शाकिनीव तत् । शस्त्रेण शातम्येनां पयोधौ पातयामि वा" ॥७८॥ इति यावदसौ मिथ्याकुविकल्पानकल्पयत् । तावत् कूपस्थितः प्रोच्चैरिति निर्यामकोऽब्रवीत् ॥७९॥ अरे रे धत्त धत्ताशु यानं स्खलयतांशुकम् । नावर्गलांश्च गृह्णीत रक्षोद्वीपः समाययौ ॥८०॥ जवादुत्तीर्य चैतस्माद् गृह्णीतैधोजलानि भोः ! । श्रुत्वेति गर्भपादान्तास्तत्क्षणात् तत् तथा व्यधुः ॥८१।। स महेश्वरदत्तोऽपि गोपितान्तरमत्सरः । द्वीपेऽस्मिन् मायया रन्तुमनयद् नर्मदामथ ॥८२॥ सापि तेन सह प्रीता भ्रामं भ्रामं वने वने । सरसः कस्यचित् तीरवानीरगहनेऽस्वपत् ॥८३।। वीक्षेथा मैनमधुना वञ्चकं नर्मदा प्रति । इतीव निद्रयातस्याश्छादिते पक्ष्मभिदृशौ ॥८४॥
15