________________
[४९९
गुणानुमोदनाद्वारे नर्मदासुन्दरीकथा]
पूर्वदुष्कर्मदोषात् ते भावि पत्या वियोजनम् । स्वप्रसूतं हि कर्मानुगच्छत् केन निवार्यते ? ॥६१॥ बोधयित्वेति तां साधुरयासीत् प्रणतोऽनया । पृष्टा च रुदती पत्या सा तत् तस्मै न्यवेदयत् ।।६२।। आश्वासयदिमां सोऽपि तद्गिरा सपि चाश्वसीत् । कालं च यापयामास तन्वती धर्ममद्भुतम् ॥६३॥ स महेश्वरदत्तोऽथ सवयोभिः पुरस्ततः । चचाल जवनद्वीपं प्रत्यर्थार्जनहेतवे ॥६४॥ आपृच्छय पितरौ कृत्वोचितभाण्डपरिग्रहम् । नर्मदासुन्दरीमाह रहसीति विहस्य सः ॥६५॥ प्रिये ! यास्यामि जवनद्वीपमर्थार्जनाकृते । शुश्रूषेथा गुरूंस्त्वं तु कुर्वीथा धर्ममन्वहम् ॥६६॥ शीतवातातपक्लेशाः प्रिये ! देशान्तरे खलु । भवती सुकुमारा तदिहैवास्तु व्रजाम्यहम् ॥६७॥ "अथाह नर्मदा साधु साधु नाथ ! त्वयोदितम् । किन्तु ते विरहं सोढुं न क्षमाहं मनागपि ॥६८॥ जले स्थले सुखे दुःखे नगे च नगरेऽपि च । यत्र त्वं यासि तत्राङ्गच्छायेवाहं तवानुगा" ॥६९॥ तया सहार्षदत्तोऽथ शुभेऽह्नि कृतमङ्गलः । प्रणम्य पितरौ चक्रे प्रयाणं प्रति वारिधिम् ॥७०॥ तत्रारुह्य महायानं विमानमिव पुष्करम् । यावत् प्रयाति केनापि तावद् गीतमगीयत ॥७१।। तद् निशम्य निशामध्ये स्वरलक्षणवेदिनी । नर्मदासुन्दरीत्याह गायन् यो वर्तते प्रिय ! ॥७२।।
15