SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ ४९८] [विवेकमञ्जरी नर्मदासुन्दरी तत्र कौमुदीव सदोदिता । मिथ्यात्वतिमिरोन्माथं चक्रे श्वशुरवेश्मनि ॥४९॥ श्वश्रू-श्वशुरयोर्भक्तिं तन्वती तत्र नर्मदा । भुंश भत्रभिप्रेता निन्येऽब्दानि कियन्त्यपि ॥५०॥ $$ अन्यदा स्वास्यमादर्शतले भूतलमेनका । पश्यन्ती नर्मदा गवाक्षमधितिष्ठति ॥५१॥ मुनिस्तावत् कृतोऽप्यागादधः सापि प्रमद्वरा । ताम्बूलरसमौज्झत् तन्मूलि सद्यः पपात सः ॥५२॥ मुनिः कोपादिति प्राह य एवं मम मूर्धनि । पिक्कां मुञ्चति तस्य स्याद् वियोगः प्रेयसा सह ॥५३।। श्रुत्वेति नर्मदा भीतभीतोत्तीर्यानमद् मुनिम् । क्षमयित्वा तमत्यर्थप्राञ्जलिश्च व्यजिज्ञपत् ॥५४॥ "अज्ञानिनी हताशाऽहं हतास्ति दलितास्मि च । हा हा शिरसि पूज्यानामीदृग् या कृतपूर्विणी ॥५५॥ कारुण्यसिन्धवो विश्वबन्धवो विश्वमातरः । विश्वकपितरो युष्मादृशा येन महर्षयः ॥५६॥ न द्रुह्यन्ति न मुह्यन्ति न कुप्यन्ति शपन्ति न । विपक्षेषु सपक्षेषु दुर्जन्तुषु समन्तुषु ॥५७॥ -- तत् प्रसीद प्रमादिन्यां मयि शापमपाकुरु । । गुरूणां विनयान्तो हि कोपः शिशुषु जायते" ॥५८॥ "अथाब्रवीद् मुनिर्वत्से ! मा विषीद वृथा, शृणु । जिनेशमुनयः प्राणहृतामपि शपन्ति न ॥५९॥ यद् मयाऽवादि तच्चक्रे स्वरूपाख्यानमात्रकम् । त्वया तु मुग्धया वत्से ! शापचापलमौह्यत ॥६०॥
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy