SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारे नर्मदासुन्दरीकथा ] दाक्ष्यदाक्षिण्यनैपुण्यसत्पुण्यविनयादिभिः । गुणैगुणैस्तेषां मनः प्रह्वीचकार सः ॥३७॥ मातामहस्तमूचेऽङ्कमारोप्य प्रयतोऽन्यदा । बन्दीकृतानि भवता प्रविश्यान्तर्मनांसि नः ||३८|| वाञ्छितं वृणु तद् वत्स ! तवैताः सम्पदोऽखिलाः । इत्युक्तोऽयाचताऽऽनम्य नर्मदासुन्दरीमयम् ॥३९॥ मातामहोऽभ्यधाद् वत्स ! साधु याचितवानसि । परं मिथ्यादृशां सीमा कुलं ते तद् दुनोति नः ॥४०॥ आस्तां कुलमिदं तात ! यूयं जानीथ यादृशम् । अहं तु श्राद्धधर्मोऽस्मीत्यार्षदत्तोभ्यधत्त तम् ॥४१॥ यद्येवं प्रत्ययः पथ्यान् शपथान् कुरु नः पुरः । इति मातामहेनोक्ते शपथानप्यथाकरोत् ॥४२॥ इति प्रत्यायितस्तेन प्रीतो मातामहस्ततः । आदिश्य सहदेवं तत्सुतामस्मै प्रदत्तवान् ॥४३॥ महेन महतोद्यम्य नर्मदासुन्दरीमसौ । विषयानार्षदत्तेयस्तया सार्धमसेवत ॥४४॥ धातून् सप्तापि सत्कर्मसेनास्यानुबध्नती । कल्याणमयमातेने नर्मदासुन्दरी पतिम् ॥४५॥ कालेन कियताप्येष स्वजनानामनुज्ञया । नर्मदासुन्दरीयुक्तो जगाम निजपत्तनम् ॥४६॥ अथाशु कारयामास नर्मदासुन्दरीजुषः । रुददत्तः स्वपुत्रस्य पूःप्रवेशमहोत्सवम् ॥४७॥ कृतप्रणामामुत्सङ्गे विनिवेश्योपगृह्य च । नर्मदासुन्दरीमेतामृषिदत्ताऽन्वमोद ॥४८॥ [ ४९७ 5 10 151 20
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy