SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ ४९४] [विवेकमञ्जरी अथ नर्मदासुन्दरीकथा - S$ अस्तीह भरतक्षेत्रे वर्धमानपुरं पुरम् । तत्र सम्प्रतिनामाभूद् गुणैरप्रतिमो नृपः ॥१॥.. अभूदृषभसेनाख्यः सार्थवाहोऽत्र पत्तने । .. जिनधर्मरतस्तस्य भार्या वीरमतीत्यभूत् ॥२॥ एतयोः सहदेवश्च वीरदासश्च नन्दनौ । नन्दनी रम्यरूपश्रीऋषिदत्तेति चाभवत् ॥३॥ अभ्याजग्मुरिमामिभ्या नैकै वरयितु परम् । मिथ्यादृशाममीषां न दत्तवानृषभः सुताम् ॥४॥ इतश्च कूपचन्द्राख्यपुरात् तत्र महर्द्धिकः।। वाणिज्यार्थं वणिक्पुत्रो रुददत्तः समागतम् ॥५॥ असौ कुबेरदत्तस्य सुहृदो मन्दिरोदरे। क्रयाणकानि निक्षिप्य न्यविक्षद् मत्तवारणे ।।६।। यावत् तावदनेनैक्षि पुरवीथ्यां सखीवृता । ऋषिदत्तेन्दुलेखेव ताराचक्रपरिस्रुता ।७।। ततः कबेरदत्तं स पप्रच्छेतिस्मरातुरः ।। केयं कस्य सोऽपि सर्वमस्मै न्यवेदयत् ॥८॥ मिथ्यादृष्टिः प्रकृत्यैव तल्लोभादचिरेण सः । यतीनुपास्य विधिवत् कपटश्रावकोऽभवत् ॥९॥ अथो ऋषभसेनस्तद्विवेकापहृताशयः । ऋषिदत्तामदत्तास्मै धर्मः फलित सर्वथा ॥१०॥ उपायश्रावकः सोऽयमुपायंस्त सविस्तरम् । ऋषिदत्तां ततो भोगानगाहत सहैतया ॥११॥ अथैष कतिथैर्मासैः स्वपितुर्लेखदर्शनात् । आपृच्छ्य श्वशुरं यातः स्वपुरं सह कान्तया ॥१२॥ 15 20 25
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy