SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ [४९३ गुणानुमोदनाद्वारेऽञ्जनासुन्दरीकथा] अथोत्तीर्य विमानात् तौ प्रतिसूर्योऽञ्जनापि च । प्रह्लादं नेमतुर्दूराद् भक्त्या भून्यस्तमस्तकौ ॥१९३॥ प्रतिसूर्यं परिष्वज्य पौत्रमङ्के निवेश्य च । प्रह्लादो जातसंह्लादो जगादैवं ससंभ्रमः ॥१९४॥ "मज्जन्तं व्यसनाम्भोधौ मामद्य सकुटुम्बकम् । समुद्धरंस्त्वमेवासि बन्धुः सम्बन्धिनां धुरि ॥१९५॥ मद्वंशपर्वभूतेयं शाखासन्तानकारणम् । स्नुषा त्यक्ता विना दोषं साध्वियं रक्षिता त्वया ॥१९६॥ सद्यो व्यसनसन्तापैः पवनोऽपि व्यमुच्यत । सनन्दनां समासाद्य मेरुचूलामिव प्रियाम्" ॥१९७।। पुरं हनुपुरं जग्मुस्ततः सर्वेऽपि ते मुदा । दिवं दिवापि कुर्वाणा विमानैरुडुमण्डिताम् ॥१९८।। महेन्द्रोऽप्याययौ तत्र समं मानसवेगया। सा च केतुमती देवी सर्वेऽप्यन्येऽपि बान्धवाः ॥१९९।। विद्याधरेन्द्रैः सम्बन्धिबन्धुभिर्विदधे मिथः । तत्रोत्सवो महापूर्वोत्सवादप्यधिकस्ततः ॥२००॥ आपृच्छ्याथ मिथो निजं निजमगुः स्थानं चिरात् खेचरा, वृद्धिं चेन्दुरिवाससाद हनुमान् गृह्णन् कला निर्मलाः । भुक्त्वा भोगमभङ्गरं प्रियतमप्रेमा क्रमादायुषि, क्षीणे साधितमृत्युरुत्तमगतिं भेजेऽञ्जनादेव्यपि ॥२०१॥ 10 15 . .. ॥ इत्यञ्जनासुन्दरीकथा ॥
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy