________________
गुणानुमोदनाद्वारेऽञ्जनासुन्दरीकथा ]
महासत्यञ्जना नाम पत्नी मे सा च दुर्धिया । निर्दोषापि मयोद्वाहात् प्रभृत्यपि हि खेदिता ॥ १६९॥ तां परित्यज्य यात्रायां चलितः स्वाभिकार्यतः । दैवाद् मत्वा च निर्दोषामुत्पत्य पुनरापतम् ॥१७०॥ रमयित्वा च तां स्वैरमभिज्ञानं समर्प्य च । पितृभ्यामपरिज्ञातः पुनः कटकमापतम् ॥१७१॥ जातगर्भा च सा मुग्धा मद्द्द्वेषाद् दोषशङ्कया । निर्वासिता जनन्या मे क्वाप्यस्तीति न बुध्यते ॥ १७२॥ साग्रेऽधुनापि निर्दोषा दारुणामासदद् दशम् । ममैवाज्ञानदोषेण धिग् मां पतिमपण्डितम् ॥१७३॥ मया भ्रान्त्वाऽखिलां क्षोणीं सम्यग् मार्गयतापि हि । न साप्ता मन्दभाग्येन चिन्तामणिरिवार्णवे ॥१७४॥ तदद्य स्वममुं देहं जुहोम्यत्र हुताशने । यद्वियोगानलोऽयं मे जीवतोऽतीव दुस्सहः ॥१७५॥ यदि पश्यथ मे कान्तां ज्ञापयध्वं तदेति यत् । त्वद्वियोगेनते कान्तः प्रविवेश हुताशने" ॥१७६॥ इत्युक्त्वा तत्र चित्यायां दीप्यमानहविर्भुजि । प्रदातुं पवनो झम्पामुत्पपात नभस्तले ॥१७७॥৷ श्रुततद्वचनो वेगात् प्रह्लादोऽप्यतिसम्भ्रमी । वक्ष:स्थलोपपीडं तं स्वबाहुभ्यामधारयत् ॥१७८॥ मृत्योः प्रियवियोगार्तिप्रतिकारस्य सम्प्रति । को विघ्नोऽयं ममेत्युच्चैरुवाच पवनञ्जयः ॥ १७९॥ प्रह्लादोऽपि जगौ साश्रुरेष पापोऽस्मि ते पिता । यः स्नुषाया विदोषाया निर्वासनमुपैक्षत ॥१८०॥
[ ४९१
5
10
15
20