________________
४९०]
[विवेकमञ्जरी
तत्रापि तामनालोक्य पप्रच्छैकां स योषितम् । इहाञ्जना कलत्रं ते समायाताऽथवा न किम् ? ॥१५७॥ साऽऽचख्याविह साऽऽयासीद् वसन्ततिलकान्विता । परं निर्वासिता पित्रोत्पन्नदौःशील्यदोषतः ॥१५८॥ . श्रुत्वेति सर्वतः कान्तामन्वेष्टुं पवनो भ्रमन् । क्वापि चानाप्य तद्वार्तामार्त्तः प्रहसितं जगौ ॥१५९।। गत्वा शंस सखे ! पित्रोमा॑म्यता परितो भुवम् । मयाऽद्य यावदालोकि न क्वाप्यञ्जनसुन्दरी ॥१६०॥ पुनर्गवेषिष्यामि तामरण्ये तपस्विनीम् । द्रक्ष्यामि चेद् वरं तर्हि नो चेद् वेक्ष्यामि पावके ॥१६१॥ इत्यादित्यपुरे गत्वा तथा प्रहसितोऽकरोत् । तच्च केतुमती श्रुत्वा विलपन्तीदमब्रवीत् ॥१६२।। हहा कृताग्रहो मृत्यौ स किं प्रहसित ! त्वया । प्रियमित्रं वने मुक्त एकाकी कठिनाशयः ? ॥१६३।। अथवा किं मया सापि निर्दोषा परमार्थतः । अविमृश्यविधायिन्या पापिन्या निरवास्यत ॥१६४॥ तदलाभि मया साध्वीदोषारोपण फलम् । यदुग्रपुण्यपापानामिहैव फलमाप्यते ॥१६५॥ प्रह्लादस्तां प्रबोध्याथ सस्नुषं सुतमीक्षितुम् । . प्रजिघायभितो दूतानात्मनापि चचाल च ॥१६६।। सह विद्याधरैः सूनुं स्नुषां चालोक्यन्नयम् । वने भूतवनेऽपृश्यच्चितोपान्तस्थितं सुतम् ॥१६७।। "पवनोऽत्रान्तरे प्रोच्चैरूचे हे वनदेवताः ! । विद्याधरेन्द्रप्रह्लाद-केतुमत्योः सुतोऽस्म्यहम् ॥१६८।।
15