________________
गुणानुमोदनाद्वारेऽञ्जनासुन्दरीकथा ]
विमानकिङ्किणी रातुं बालोऽङ्काद् मातुरुद्ययौ । पपात च हनुप्रान्तेनाद्रावदलयच्च तम् ॥१४५॥ सद्यो हृदयमाजघ्ने पाणिनाञ्जनसुन्दरी । दरीरपि प्रतिवै रोदयन्ती रुरोद च ॥ १४६ ॥ प्रतिसूर्योऽनुपत्याशु भागिनेय्यास्तमर्भकम् । अक्षताङ्गमुपादायार्पयद् नष्टनिधानवत् ॥१४७॥ ततो हनुपुरे सद्यो विमानेन जगाम सः । एतां च गमयायास निजावासवतंसताम् ॥ १४८॥ हनुना शैलभेत्ता यत् प्राप्तो हनुपुरे च यत् । अभ्यधीयत तेनायमर्भको हनुमानिति ॥१४९॥ अञ्जनाया बहिः क्रीडन्नवर्धत स बालकः । अन्तः श्वश्रूप्रदत्ताङ्कः समुत्तारमनोरथः ॥१५०॥ §§ इतश्च पवनः कृत्वा जयप्रीतं दशाननम् । आजगाम निजं राजधानीमानीतसम्पदम् ॥ १५१ ॥ प्रणम्य पितरौ तत्राञ्जनावासगृहं ययौ । तच्चानञ्जनमद्राक्षीदलोचनमिवाननम् ॥१५२॥ प्रेयसी क्वाञ्जना सा मे नेत्रयोरमृताञ्जनम् । इति तत्र स्थितां काञ्चिदेकां पप्रच्छ च स्त्रियम् ॥१५३॥ साप्याख्यत् त्वयि यात्रायां गतेऽहस्सु कियत्स्वपि । गर्भसम्भवदोषेण स देव्या निरवास्यत् ॥ १५४॥ महेन्द्रनगरासन्ने सा नीत्वाऽऽरक्षपुरुषैः । पापैरमुच्यतारण्ये हरिणीव भयाकुला ॥१५५॥ श्रुत्वेति पवनः पारापतवत् पवनत्वरः । अकुण्ठदयितोत्कण्ठः प्राप श्वशुरपत्तने ॥१५६॥
[ ४८९
5
10
15
20