SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ ४८८] [विवेकमञ्जरी अन्येद्युः सुषुवे तत्र प्राचीव रुचिमालिनम् । पदाग्रजाग्रदम्भोजचक्रं तनयमञ्जना ॥१३३॥ तस्याश्च सूतिकर्माणि वसन्ततिलकाऽकरोत् । स्वेनाहृतैर्मृदूत्सेधोदयादेधोजलादिभिः ॥१३४॥ ... आरोप्य सुतमुत्सङ्गे दुःखिताऽञ्जनसुन्दरी । अरोदीत् तत्पुरो दीना रोदयन्ती च तां गुहाम् ॥१३५।। एतस्मिन् विपिने जात ! तव जातस्य कीदृशम् । जन्मोत्सवं करोम्येषा वराकी पुण्यवजिता ॥१३६।। रुदतीमिति तां श्रुत्वा समुपेत्य च खेचरः । प्रतिसूर्यो मधुरगीरपृच्छद् दुःखकारणम् ॥१३७।। आ विवाहादथापुत्रजन्म चाख्यदशेषतः । अञ्जनादुखहेतूनि बाष्पायितमुखी सखी ॥१३८।। सोऽपि सद्यो रुदन्नाह स्माहं हनुपुरेश्वरः । एषोऽस्मि सुन्दरीमालाकुक्षिभूश्चित्रभानुजः ॥१३९॥ भ्राता मानसवेगायास्त्वज्जनन्याश्च बालिके!। दिष्ट्या त्वां दृष्टवानस्मि जीवन्तीमाश्वसिह्यतः ॥१४०॥ युग्मम् ।। मातुलं तं विदित्वा साप्यरोदीदधिकाधिकम् । पुनर्नवानि दुःखानि दृष्टेऽभीष्टे भवन्ति हि ॥१४१।। रुदतीं वारयित्वा तां प्रतिसूर्यः सहागतम् । . सूनोर्जन्मादि पप्रच्छ दैवज्ञमथ सोऽवदत् ॥१४२॥ भाव्यवश्यं महाराजो भवे चात्रैव सेत्स्यति । शुभेऽहनि चले लग्ने जातोऽयं पुण्यवान् सुतः ॥१४३॥ प्रतिसूर्योऽथ यामेयीं सात्मजां ससखीं च ताम् । विमानवरमारोप्य प्रतस्थे स्वपुरं प्रति ॥१४४॥ 15
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy