________________
[४८७
गुणानुमोदनाद्वारेऽञ्जनासुन्दरीकथा]
इत्युक्ता सानुतापा सा गृहीत्वा प्रतिमां ततः । प्रमृज्य क्षमयित्वा च यथास्थानं न्यवेशयत् ॥१२१॥ तदाद्यासाद्य सम्यक्त्वमूलं धर्मं प्रपाल्य च । काले विपद्य सौधर्मे कल्पे सा देव्यजायत ॥१२२॥ च्युत्वा ततो महेन्द्रस्याभूत् सुतेयं सखी तव । अस्यास्तज्जैनबिम्बस्य दु:स्थानक्षेपजं फलम् ॥१२३।। अस्यास्त्वं भगिनी तस्मिन् भवेऽभूस्तस्य कर्मणः । अनुमन्त्री च तत्पाकमनुभुझे सहानया ॥१२४॥ भुक्ताप्रायमिदं चास्यास्तस्य दुष्कर्मणः फलम् । गृह्यतां जिनधर्मस्तच्छुभोदर्को भवे भवे ॥१२५॥ भविष्यति च पुत्रोऽस्यास्ततोऽकस्माच्च मातुलः । एत्यैनां स्वगृहे नेता भावी पत्या च सङ्गमः ॥१२६।। एवमुक्त्वाऽऽर्हते धर्मे स्थापयित्वा स ते उभे । समुत्पत्य पतत्रीव रभसाद् नभसा ययौ ॥१२७॥ अथायान्तं पुरो व्यात्तवक्त्रं दीप्रदृशं भृशम् । पृच्छेनाघन्तमुर्वी ते सिंहमेकमपश्यताम् ॥१२८॥ उत्पित्सन्त्याविव द्यां ते विविझू इव चावनिम् । कान्दिशीके ततो मृग्याविव यावदातिष्ठताम् ।।१२९॥ मणिबलाभिधस्तावद् गन्धर्वस्तद्गुहाधिपः । विकृत्य सारभं रूपं तं पञ्चास्यमनाशयन् ॥१३०॥ युग्मम् ॥ संहत्य सारभं रूपं स्वरूपं प्रतिपद्य च । जगौ तयोः प्रमोदाय सारदस्तुतिमाहतीम् ॥१३१॥ तेन चामुक्तसान्निध्ये गुहायां तत्र सुस्थिते । मुनिसुव्रतदेवार्चा स्थापयित्वाऽर्चतः स्म ते ॥१३२॥