SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ४८६] [विवेकमञ्जरी 10 "साधु श्वश्रु ! कुले स्वस्य कलङ्को रक्षितस्त्वया । त्वयापि तात ! संबन्धिभयाच्चारु विचारितम् ॥१०९।। योषितां दुःखितानां हि माताऽऽश्वासनकारणम् । पतिच्छन्दजुषा मातस्त्वयाप्यहमुपेक्षिता ॥११०॥ . भ्रातर्दोषोऽपि नास्त्यत्र ताते जीवति ते ननु । नाथ ! त्वयि च दूरस्थे रिपुः सर्वोऽपि मेऽभवत्" ॥१११॥ विलपन्तीति स सख्या निन्ये संबोध्य चाग्रतः । मुनिमेकमपश्यच्च ध्यानस्थं गिरिगह्वरे ॥११२॥ तं नत्वाऽमितगत्याख्यं तत्पुरस्ते निषीदतुः । अन्तेध्यानं ददौ सोऽपि धर्मलाभाशिषं तयोः ॥११३।। वसन्ततिलका तस्मै कथयित्वाऽञ्जनाकथाम् । तदुःखकारणं तं चाप्राक्षीदाख्यच्च सोऽप्यदः ॥११४।। $$ पुरेऽभूत् कनकपुरे पुरेद्धमहिमा नृपः । नामधेयेन कनकरथो जितमहारथः ॥११५॥ तस्याभूतां च कनकोदरी लक्ष्मीवतीति च । राज्यौ, सुश्राविका लक्ष्मीवती तत्र सदाऽभवत् ॥११६।। बिम्बं रत्नमयं जैनं गृहचैत्ये निवेश्य सा । अपूज्यदवन्दिष्ट प्रत्यहं कालयोर्द्वयोः ॥११७॥ मात्सर्यात् कनकोदर्या हत्वा तद्विम्बमार्हतम् । चिक्षिपे चापवित्रे स्वकरेणवकरोत्करे ॥११८॥ जयश्री म गणिनी विहरन्त्यागता तदा । तद् दृष्ट्वा तामुवाचैवमकार्षीः किमिदं शुभे ! ? ॥११९।। भगवत्प्रतिमामत्र प्रक्षिपन्त्या त्वया कृतः । अनेकभवदुःखानामात्मायं हन्त ! भाजनम् ॥१२०॥ -15
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy