________________
[४८५
गुणानुमोदनाद्वारेऽञ्जनासुन्दरीकथा ]
दुष्टाप्यञ्जनलेखेव शिष्टा नेत्राश्रये वधूः । तच्च्युताननकालुष्यकरी: स पितुरात्मनः ॥९७|| चिन्तयन्तमिति प्राह तं प्रसन्नाभिधः सुतः । इयं निष्कास्यतां गेहाद् देहाल्लूतिरिव द्रुतम् ॥९८॥ अथावोचद् मतिसिंहो नाम मन्त्रीति भूपतिम् । श्वश्रूदुःखे दुहितॄणां शरणं शरणं पितुः ॥१९॥ किञ्च केतुमती श्वश्रूनिर्दोषामप्यमूं प्रभो ! । निर्वासयेदपि क्रूरा दोषमुत्पाद्य कञ्चन ॥१००॥ भवेद् व्यक्तिर्यावद् दोषादोषस्तावदत्र तत् । प्रच्छन्नं पाल्यतामेषा स्वपुत्रीति क्रूपां कुरु ॥१०१॥ राजापीति जगौ श्वश्रूः सर्वत्र भवतीदृशी । ईदृशं चरितं तु स्याद् वधूनां न हि कुत्रचित् ॥१०२॥ किञ्च संशृण्महेऽग्रेऽपि द्वेष्येयं पवनस्य यत् । गर्भः संभाव्यतेऽमुष्याः पवनादेव तत् कथम् ? ॥१०३।। सर्वथा दोषवत्येषा साधु निर्वासिता तया । निर्वास्यतामितोऽपि द्राक् पश्यामस्तन्मुखं न हि ॥१०४॥ इत्थं राजाज्ञया द्वा:स्थो निरवासयदञ्जनाम् । जनैरपि कृताक्रन्दैनिरानन्दैनिरीक्षिताम् ॥१०५॥ क्षुधिता तृषिता श्रान्ता निःश्वसन्त्यश्रुवर्षिणी । दर्भविद्धपदासृग्भी रञ्जयन्ती महीतलम् ।।१०६।। पदे पदेऽभिताम्यन्ती विश्राम्यन्ती तरौ तरौ । रोदोऽपि रोदयन्ती साऽचालीदालीसमन्विता ॥१०७॥ युग्मम् ॥ क्वापीति व्यलपच्चेयमहो मे भाग्यविप्लवः । विवेकिनोऽपि यत् पूज्या नापराधमवेविचुः ॥१०८॥
15
20