SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ४८४] [विवेकमञ्जरी $$ इतश्च तद्दिने गर्भ बभाराञ्जनसुन्दरी । तामालोक्य तथा श्वश्रूः साधिक्षेपमदोऽवदत् ॥८५॥ हले ! किमिदमाचारि कुलद्वयकलङ्ककृत् ? । देशान्तरगते पत्यौ पापे ! । यदुदरिण्यभूः ॥८६॥ स्वपुत्रे त्वदवज्ञायामज्ञाय्यज्ञानदोषिता । इयच्चिरं त्वमस्माभिर्न ज्ञातासि तु पांशुला ॥८७॥ भत्सिता केतुमत्येति साश्रुरञ्जनसुन्दरी । पत्युरागमचिह्नं तदङ्गुलीयमदर्शयत् ॥८८।। सा लज्जयाऽवाङ्मुखी केतुमत्या भूयोऽप्यभयंत । यस्तेऽग्रहीद् न नामापि तत् कथं तेन सङ्गमः ? ॥८९॥ अङ्गलीयकमात्रेण प्रतारयसि नः कथम् ? । प्रतारणविधीन् नैकान् जानते ह्याशु पांशुलाः ॥१०॥ स्थानं न त्वादृशामत्र भर्त्सयित्वेदमञ्जनाम् । सा रुषाऽऽदिक्षदारक्षानेतां नेतुं पितुर्गृहे ॥११॥ तां च ते यानमारोप्य वसन्ततिलकान्विताम् । महेन्द्रनगरोपान्ते नीत्वाऽमुञ्चन्नुदश्रवः ॥९२॥ दुःखदीनामिमां द्रष्टुमक्षमास्ते ययुः क्षणात् । अस्तं च भानुमान् भेजे को वीक्षेतापदं सताम् ? ॥९३।। घूकघूत्कृतिफेरुण्डफेत्कारवृकवाशितैः । श्वश्रूवाग्रोचिभिः कीर्णकीर्णतां साऽनयद् निशाम् ॥९४।। प्रातर्दूना पितुर्गेहद्वारेऽगाद् भिक्षुकीव सा। सख्याख्यातां च तां वेत्री तता राज्ञे व्यजिज्ञपत् ॥९५।। लज्जावनम्रश्यामास्यो राजाप्येवमचिन्तयत् । अचिन्त्यं चरितं स्त्रीणां ही विपाको विधेरिव ॥१६॥ 15 .
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy