________________
गुणानुमोदनाद्वारेऽञ्जनासुन्दरीकथा ]
इत्युक्तवन्तं सा नाथमुपलक्ष्य त्रपावती । पर्यङ्केषामवष्टभ्याभ्युत्तस्थौ विनमन्मुखी ॥७३॥ ततो हस्तीव हस्तेन दोष्णा वलयितेन ताम् । आददानोऽधिपर्यङ्कं न्यषदत् पवनञ्जयः ||७४| भूयस्तां पवनोऽवोचद् मयातिक्षुद्रबुद्धिना । निरागाः खेदितासि त्वं सहस्व मम तत्प्रिये ! ॥ ७५ ॥ अञ्जनापि जगादैवं नाथ ! मा स्म ब्रवीरिदम् । सदैव तव दास्यस्मि क्षमणाऽनुचिता मयि ॥७६॥ तदानीं विजनीभूते रेमाते तौ प्रियापती । निशा च तद्रसावेगवाहितेव ययौ जवात् ॥७७॥৷ प्रमीतां रात्रिमालोक्य तामूचे पवनञ्जयः । कान्ते ! जयाय यास्यामि ज्ञास्यति गुरवोऽन्यथा ॥७८॥ खेदं माऽतः परं कार्षीः सुखं तिष्ठ सखीवृता । दशास्यकृत्यमापाद्ययावदायामि भामिनि ! ॥७९॥ साप्युवाचेति तत्कृत्यं दोष्मतः सिद्धमेव ते । कृतार्थः शीघ्रमागच्छ यदि मां जीवितीयसि ॥८०॥ अपरं च ऋतुस्नातास्म्यद्यैव यदि मे भवेत् । गर्भस्तत् त्वत्परोक्षेऽपवदेयुः पिशुना मयि ॥ ८१ ॥ तामाह पवनोऽपीति शीघ्रमेष्यामि सुन्दरि ! | मय्यायाते कथं क्षुद्रावकाशो भविता त्वयि ॥८२॥ अथवा गृह्यतामेतद् मदागमनसूचकम् । नामाङ्कङ्गुलीयं मे समये तत् प्रकाशयेः ॥८३॥ अर्पयित्वाऽयमस्यै तदादाय च निजां चमूम् । उत्पत्य रावणं प्राप विजयो मूर्तिमानिव ॥८४॥
[ ४८३
5
10
15
20