SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ ४८२] [विवेकमञ्जरी 10 इत्येवं सुहृदा तेन भावसंवेदिनेरितः । प्रापोत्पत्याञ्जनादेवीभवनं पवनञ्जयः ॥६१॥ द्वारे तिरोहितः सोऽस्थादग्रे प्रहसितोऽविशत् । ददर्श चाञ्जना तल्पे व्योम्नि लेखामिवैन्दवीम् ।।६२।। वेल्लन्तीं निःश्वसन्ती च वियोगोष्मप्रपीडिताम् । जीवायोगं प्रापमाणां तित्तिरीमिव गत्वरीम् ॥६३॥ देव्यस्ति पवनोऽयं ते वीजनेन सखीजनैः ।। पृष्टे क्व स इति प्रोच्याभ्युत्थाय च निपेतुषीम् ॥६४॥ विशेषकम् ।। सखीवचो मृषा नेति दिष्ट्या स्वामिनि ! वय॑से । दूरीकुरुष्व हृत्तापं पवनञ्जयसङ्गमात् ॥६५॥ अहं प्रहसितस्तस्य मित्रमग्रेसरोऽस्मि च । इत्युक्त्वा सोऽवसृत्यैतां दण्डनामं नमोऽकरोत् ॥६६।। युग्मम् ॥ अञ्जनापि जगादैवं हसितां वेधसैव माम । अहासीस्त्वं प्रहसित ! क्षणोऽयं न हि नर्मणः ॥६७॥ अतिसंक्लेशिनामत्र दोषो मत्पूर्वकर्मणाम् । कुलीनस्तादृशो भर्ता त्यजेद् मां कथमन्यथा ? ॥६८|| पाणिग्रहात् प्रभृत्येव त्यक्तायाः स्वामिना मम । द्वाविंशतिः समा जग्मुर्जीवाम्यद्यापि पापिनी ॥६९।। अथ संक्रान्ततदुःखप्राग्भारः पवनञ्जयः । प्रविश्यान्तरुवाचेति बाष्पगद्गदया गिरा ॥७०॥ निर्दोषा दोषमारोप्य त्वमुद्वाहात् प्रभुत्यपि । अवज्ञातास्यविज्ञेन मया देवि ! ज्ञमानिना ॥७१॥ मद्दोषादीदृशीं प्रापस्त्वं प्रिये ! दुस्सहां दशाम् । मृत्युं प्राप्तापि मद्भाग्यैः स्तोकाद् मुक्तासि मृत्युना ॥७२॥ 20
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy