SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारेऽञ्जनासुन्दरीकथा ] पतित्वा पादयोस्तस्य साप्यूचे रचिताञ्जलिः । त्वया संभाषिताः सर्वेऽप्यहं तु न मनागपि ॥ ४९॥ विज्ञप्यसे तथापि त्वं विस्मार्याहं न हि त्वया । पुनरागमनेनाशु ‘पन्थानः सन्तु ते शिवाः ' ॥ ५० ॥ इति ब्रुवाणां तां दीनामदीनचरितामपि । ययाववगणय्यैव जयाय पवनञ्जयः ॥ ५१॥ पत्यवज्ञावियोगार्त्ता गत्वान्तर्वेश्म भूतले । सा पपाताम्बुभिन्नेव तटी सख्यश्रुभिः सह ॥५२॥ पवमानवदुत्पत्य पवनो मानसं सरः । जगाम तत्र चोवास प्रकृत्यावासमद्भुतम् ॥५३॥ §§ सन्धायामधिपल्यङ्कं निविष्टः सरसीतटे । आर्तां प्रियवियोगेन चक्रवाकीं ददर्श सः ॥५४॥ पित्सन्तीं समुत्पिसन्तीं मूर्च्छन्तीं च मुहुर्मुहुः । तामालोक्य रुदतीं च स एवं पर्यचिन्तयत् ॥५५॥ सकलं वासरं पत्या रमन्ते चक्रवाकिकाः । सोढुं तु विरहं तस्य निशायामपि नेशते ॥५६॥ उद्वाहतोऽपि या त्यक्ता भाषिता या न जातुचित् । या गच्छताप्यवज्ञाता सा कथं हा भविष्यति ? ॥५७॥ धिग् धिग् ममाविवेकेन म्रियते सा तपस्विनि । इति चिन्तितमात्मीयमाख्यत् प्रहसिताय सः ॥५८॥ प्रोचे प्रहसितोऽप्येवं साध्वज्ञासीश्चिरादपि । नूनं विपद्यते साद्य सारसीव वियोगतः ॥५९॥ आश्वासयितुमद्यापि सखे ! सा तव युज्यते । प्रियोक्त्या तामनुज्ञाय स्वार्थाय पुनरापतेः ॥६०॥ [ ४८१ 5 10 15 20
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy