________________
४८०]
[विवेकमञ्जरी
5
तां च वाचापि पवनञ्जयो न समभावयत् । यथा कथञ्जनोज्झन्ति 'न मानं हि मनस्विनः' ॥३७॥ कुमुद्वतीव शीतांशुं सा विना पवनञ्जयम् । .
तस्थावनुदिनं दुःस्था प्रस्थास्नुभिरिवासुभिः ॥३८।। $ एवं व्रजति कालेऽथ प्रह्लादनृपमेकदा ।
एत्य लङ्कापतेर्दूतः सगौरवमिदं जगौ ॥३९॥ विशङ्काहंकृतेर्लङ्कापतेर्वशयतो दिशः । वर्तते विग्रह: साकं वस्गेनातिदारुणा ॥४०॥ विद्याधरेन्द्रानाह्वातुं प्राहिणोत् तेन रावणः । दूतान् प्रत्येकमप्याराद् भवते प्रेषितस्त्वहम् ॥४१॥ प्रह्लादोऽथ दशास्याय साहायककृते स्वयम् । यावच्चचाल तावत् तमुवाच पवनञ्जयः ॥४२।। इहैव तिष्ठ तात ! त्वं दशग्रीवमनोरथम् । पूरयिष्येऽहमप्युच्चैस्तवास्मि तनयो ननु ॥४३॥ इत्युदीर्य सनिर्बन्धं पितरं चानुमन्य सः । अखिलं लोकमापृच्छयाचलच्छबलवाहनः ॥४४॥ श्रुत्वाञ्जना जनाद् भर्तुर्यात्रामुत्तीर्य सौधतः । तमीक्षितुमवष्टभ्य द्वारमस्थित दु:स्थिता ॥४५॥ पाण्डुरौष्ठीमतिक्षामामुन्मुखी परतः स्थितम् ।। अञ्जनां व्यञ्जनदृशं ददर्श पवनञ्जयः ॥४६॥ निध्यायंस्तामिदं दध्यावयं ध्यामलितो रुषा । अहो निहीकता निर्भीकता चास्य कुमेधसः ॥४७|| अथवा ज्ञातमेवास्या दौर्मनस्यं पुरापि हि । उदूढा च मया पित्रोराज्ञालङ्घनभीरुणा ॥४८॥
15