SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारेऽञ्जनासुन्दरीकथा ] इत्यालापं तयोः श्रुत्वाऽचिन्तयत् पवनञ्जयः । अस्याः प्रियमिदं नूनं तेनैषा न निषेधति ॥ २५॥ विद्युत्प्रभो हृदि ययोर्द्वयोरपि तयोः शिरः । छिनद्मीति वदन् रोषात् कृष्टासिरभवच्च सः ॥ २६॥ धृत्वाचे तं प्रहसितो दोषेऽपि स्त्री न हन्यते । अञ्जना किन्तु निर्दोषा ह्रियैतां न निषेधति ॥ २७॥ इति प्रहसितेनोच्चैर्निषिद्धस्तद्वधादयम् । उत्पत्यागाद् निजागारं तस्थौ जाग्रंश्च दुःखतः ॥२८॥ प्रातः प्रहसितं प्राह सखे ! यामः स्वपत्तनम् । विरक्ता स्त्री विषं पुंसां तेनालमनयोढया ॥२९॥ उत्पित्सन्तमुदीर्येति प्राह प्रहसितोऽथ तम् । भ्रातर्निर्मूल एवायं हेतुस्त्वच्चित्तपल्वले ॥३०॥ येन सा दोषलेशेनाप्यञ्जना नाप्तगञ्जना । दुग्धे स्युः पूतराः क्वापि श्यामिकापि च काञ्चने ? ॥३१॥ किञ्च स्वस्यापि नो विज्ञाः प्रतिज्ञामवजानते । गुरूणां तामवज्ञातुं कथमुद्यतवानसि ? ||३२|| उक्तः प्रहसितेनैवं विमृश्य पवनञ्जयः । तथैव कथमप्यस्थात् करी वारीगतो यथा ॥ ३३॥ निर्णीते चाह्नि पवनाञ्जनयोः समजायत । पितृनेत्रसुधासत्रं पाणिग्रहमहोत्सवः ||३४|| महेन्द्रेणार्चितः स्नेहात् तदादाय वधूवरम् । तदीयादोषसाह्लादः प्रह्लादः स्वपुरं ययौ ॥ ३५ ॥ प्रह्लादोऽञ्जनसुन्दर्याः सौन्दर्यातिशयान्वितम् । अर्पयामास वासार्थमावासं सप्तभूमिकम् ॥३६॥ [ ४७९ 5 10 15 20
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy