________________
5
10
15
20
४७८ ]
प्रह्लादस्तत्र यान् प्रेक्ष्य महेन्द्रमिदमभ्यधात् । दीयतां मत्सुतायैषा स्वसुताऽञ्जनसुन्दरी ||१३|| महेन्द्रः प्रतिपेदे तदग्रेऽपि हृदयस्थितम् । निमित्तमात्रमेवासीत् प्रह्लादप्रार्थना तु सा ॥ १४ ॥ इतस्तृतीये दिवसे मानसाख्ये सरोवरे । कार्यो विवाह इत्युक्त्वा तौ यथास्थानमीयतुः ॥१५॥ ततो महेन्द्र-प्रह्लादौ साह्लादौ समम् । ईयतुर्मानससरस्यावासं चक्रतुश्च तौ ॥१६॥ मित्रं प्रहसितं तत्रोवाचेति पवनञ्जयः । दृष्टास्ति सा त्वया ब्रूहि कीदृश्यञ्जनसुन्दरी ? ||१७| हसित्वेषत् प्रहसितोऽप्येवमूचे मयेक्षिता । सा देवसुन्दरीभ्योऽपि सुन्दराञ्जनसुन्दरी ॥१८॥ पवनञ्जय इत्यूचेऽद्यैव द्रक्ष्यामि तां कथम् ? | दयितोत्कण्ठितानां हि कालक्षेपः सुदुःसहः ॥१९॥ पवनः सुहृदा नीतः प्रच्छन्नोऽथ तदालये । अञ्जनां निशि योगीवापश्यत् कुण्डलिनीं पुरः ॥२०॥ सखी वसन्ततिलका तदोचे ऽञ्जनसुन्दरीम् । धन्यासि या त्वमप्राप्सीः (?) तं पतिं पवनञ्जयम् ॥२१॥ तमाह मिश्रकेशीति हले ! चरमविग्रहम् ।
मुक्त्वा विद्युत्प्रभं देव्याः को वरः श्लाघ्यते परः ? ॥२२॥ प्रथमाप्रत्युवाचैवं मुग्धे ! वेत्सि न किञ्चन । विद्युत्प्रभो हि स्वल्पायुः स्वामिन्या युज्यते कथम् ? ॥२३॥ द्वितीयापीत्यभाषिष्ट मन्दा ति सखि ! शेमुषी । वरं स्तोकोऽपि कर्पूरो न पूरोऽपि तु भस्मनः ॥ २४॥
[ विवेकमञ्जरी