________________
गुणानुमोदनाद्वारेऽञ्जनासुन्दरीकथा ]
अञ्जनासुन्दरी यथा
$$ इहैव भारतेऽम्भोधितीरे दन्तिगिरौ पुरम् । महेन्द्रपुरमित्यस्ति महेन्द्रपुरसुन्दरम् ॥१॥ तत्र विद्याधरेन्द्रोऽभूद् महेन्द्र इति विश्रुतः । बहिरन्तर्द्विषामन्तं धर्मेण विततान यः ॥२॥ पत्न्यां मानसवेगायाममुष्याऽञ्जनसुन्दरी । प्रसन्नादिकपुत्राणां शतादनु सुताऽभवत् ॥३॥ यस्या रूपविनिर्माणावशिष्टैः परमाणुभिः । कङ्केल्लिकदलीकञ्चुकुन्दादि विदधे विधिः ॥४॥ यौवनौल्लसने तस्या वरं चिन्तयतः पितुः । अमात्याः शतशोऽशंसन् विद्याधरकुमारकान् ॥५॥ महेन्द्रस्याज्ञयाऽमात्यास्तद्रूपाणि पृथक् पृथक् । यथावदालेख्य पटेष्वानाय्य तमदर्शयन् ॥६॥ इतो वैताढ्यगादित्यपुरे प्रह्लादभूपतेः । केतुमत्यङ्गभूः पुत्रो बभूव पवनञ्जयः ||७|| तं वापरं च चित्रस्थं हिरण्याभाङ्गसंभवम् । विद्युत्प्रभाख्यमद्राक्षीद् महेन्द्रो मन्त्रिदर्शितम् ॥८॥ रूपवन्तौ कुलीनौ च द्वावप्येतौ तदेतयोः । वत्सायाः कोऽस्तु भर्तेति राज्ञोक्तः सचिवाऽवदत् ॥९॥ एषोऽष्टादशवर्षायुर्मोक्षं विद्युत्प्रभो गमी । इति नैमित्तिकाः स्वामिन् ! साक्षादाख्यातपूर्विणः ॥१०॥ प्रह्लादतनयस्त्वेष चिरायुः पवनञ्जयः । योग्यो वरस्तदेतस्मै प्रयच्छाञ्जनसुन्दरीम् ॥११॥
$$ अत्रान्तरे च यात्रायै द्वीपं नन्दीश्वरं ययुः । विद्याधरेन्द्राः सर्वेऽपि सर्वद्धर्या सपरिच्छदाः ||१२||
-
[ ४७७
5
10
15
20
25