SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारे विलासवतीकथा ] देवीं वियोगदुःखार्त्तिकृशामतिशयादसौ । शीलरेखायितां वेणीपट्टिकायामलोकत ॥५०५॥ हर्षस्मितमुखं वीक्ष्य स्वामिनं सापि तत्क्षणात् । पुलकैः स्फारतां नीता लज्जया संकुचन्त्यपि ॥५०६॥ 88 दम्पती तावथ श्रेणीद्वितयस्यापि खेचराः । अभ्यषिञ्चन्त साम्राज्यपदे संभूय संमदात् ॥५०७॥ तयोर्विद्याधरैश्वर्यसुखसम्पत्तिशालिनोः । जज्ञेऽजितबलः सूनुः करीन्द्रस्वप्नसूचितः ||५०८|| तावथोत्कण्ठितौ पित्रो राज्यं विन्यस्य मन्त्रिषु । गतौ च मिलितौ हर्षबाष्पगद्गदयोस्तयोः ||५०९॥ आपृच्छ्य सुबहोः कालाद् दम्पती पितरौ निजौ । निजराज्यमथायातौ तदपालयतां चिरम् ॥५१०॥ अन्यदाऽतिशयज्ञानी चारण श्रमााणाधिपः । आजगाम पुरे तत्र चित्राङ्ग इति विश्रुतः ॥ ५११॥ सनत्कुमारस्तं श्रुत्वाऽऽयातं विद्याधरेश्वरः । सर्वद्ध्यऽऽगत्य विधिना ननाम सह कान्तया ॥५१२॥ धर्मलाभाशिषमथो गुरुर्गम्भीरया गिरा । दत्त्वा दिदेश सर्वज्ञोपज्ञं धर्मं तयोः पुरः ||५१३॥ देशान्ते च पप्रच्छ गुरुभक्त्या गुरुं नृपः । प्रभो ! किमावयोः कर्म भूयो भूयो वियोगदम् ? ॥५१४॥ "गुरुराख्यद् नृपास्तीह काम्पिल्यमिति पत्तनम् । ब्रह्मदत्तोऽत्र भूपोऽस्य सुन्दरीति प्रियाऽभवत् ॥५१५॥ रामगुप्त इति त्वं च समभूः सूनुरेतयोः । तारापीठसुतेयं तु प्रिया तव हरिप्रभा ॥५१६॥ [ ४७५ 5 10 15 20
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy