________________
४७४]
[विवेकमञ्जरी
10
निजसैन्ये परिक्षीणे ततोऽनङ्गरतिः स्वयम् । कुमारसैन्यं मन्थाद्रिरिवाम्भोधि व्यलोडयत् ॥४९३।। द्विपं द्वीपीव तं क्रुद्धः कुमारोऽथाभ्यधावत । निस्त्रिंशघातैनिघ्नंस्तथान् घन इव ध्वनन् ॥४९४।। जिष्णुना वञ्चितेनासौ यमुनाप्रतिमेऽमुना । शुशुभे द्विषदन्त्राली कालीयकुलशालिनि ॥४९५।। कुमारस्याथ साश्चर्यं वीक्ष्यमाणः सुरासुरैः । अनङ्गरतिना सार्धमङ्गाङ्ग्यजनि सङ्गरः ॥४९६।। कुमारः कौतुकेनाथ पटं नयनमोहनम् । प्रावृत्य विदधे क्ष्वेडामग्रतः पृष्ठतोऽस्य तु ॥४९७|| स दुरस्फुरितः पश्यन्नप्यपश्यदमुं तदा । विलक्षश्चकितोऽनङ्गरतिरेवमचिन्तयत् ॥४९८॥ कामचारी नु सिद्धोऽयं न सामान्यो महाभुजः । वृथात्मबहुमानो मे 'बहुरत्ना हि भूरियम्' ॥४९९।। तदलं पौरुषेणात्र भस्मनीव हुतं हि तत् । तच्चैनं यामि तपसे स्वं न्यूनं पूरयामि च ॥५००। ततोऽस्तवीद नमस्तुभ्यमलक्ष्याय महात्मने । कुमारोऽपि पटं हित्वाऽवादीत् प्रहर, किं स्थितः ? ॥५०१॥ ततः प्रत्यक्षमालोक्य कुमारमयमानमत् । . दीयमानमपि त्यक्त्वा राज्यं च प्रस्थितो वने ॥५०२॥ दिवि दुन्दुभयो नेदुरासेदुः पुष्पवृष्टयः । महिमानं कुमारस्य तदानीमस्तुवन् सुराः ।।५०३।। ततः पुरवधूनेत्रबद्धवन्दनमालिकम् । पुरन्दर इव स्वर्गं कुमारः प्राविशत् पुरम् ।।५०४।।
15