________________
[४७३
गुणानुमोदनाद्वारे विलासवतीकथा ]
अथोचुः खेचराः स्वामिन् ! अस्मानेव समादिश । दूतेनान्येन किं तस्मै यमदूतां वयं खलु ॥४८१॥ कुमारोऽथ जगौ वीराः ! पश्चादपि हि जेष्यते । युष्माभिरेव, यद् दूतप्रेषणं तदयं नयः ॥४८२।। इति संबोध्य तान् दूतं शिक्षयित्वा च तत्क्षणात् । प्रेषयामास पवनगतिमेव स विद्विषे ॥४८३॥ स गत्वाऽनङ्गरतये कथयामास तत्तथा । यत्त्वां सनत्कुमारोऽभिवक्ति विद्याधरेश्वरः ॥४८४॥ अज्ञानाद् यदसावस्मत्परोक्षे भवता हृता । तद् विलासवतीं मुञ्च न ह्येतत् पुरुषव्रतम् ॥४८५॥ नो वाधिपत्यवैयात्यवशो मुञ्चसि न प्रियाम् । तत्कीनाशपुरीवासप्रस्थाने प्रगुणो भवेः ॥४८६।। अथानङ्गरतिः प्राह प्रहासोल्लण्ठया गिरा । तदेव भूयः पवनगतिना यत्किलोदितम् ॥४८७।। अब्रवीदपि कस्कोऽत्र भोरेनं खेचरं ध्रुवम् । कण्ठे गृह्णीत भूचारिदौत्येनात्राजगाम यः ॥४८८।। तत्क्षणादेव पवनगतिः कद्धोऽस्य दधियः ।। दन्तान् पाष्णिप्रहारेण पातयन्नुत्पपात खम् ॥४८९॥ आगत्य च कुमाराय तत् तथाऽयमशंसत । स च तं प्रलयाम्भोधिरिव भीमोऽभ्यषेणत् ।।४९०॥ अनङ्गरतिरप्येनं निशम्यायान्तमभ्यगात् । मिथो मिलितयोरासीदेतयोर्दारुणो रणः ॥४९१।। रजोभिरस्त्रैः शस्त्राणां स्फुलिङ्गै पुजमारुतैः । तदाऽभूदानकध्वानैः पञ्चभूतात्मकं जगत् ॥४९२॥