________________
४७२]
[विवेकमञ्जरी
10
.
तामदृष्ट्वा ततोऽधावं विमानमनु तत् पुनः । नापश्यं वेद्मिनो देवी हृता, केनास्ति कुत्र च ? ॥४६९॥ ततोऽवदत् कुमारस्तं विश्वभूते ! विषीद मा । ..ममाजितबला देवी तुष्टा स्तोकमिदं ततः ।।४७०।। अथो मलयशैलस्य शृङ्गे तत्रैव तस्थिवान् । कुमारो मन्त्रयामास खेचरानात्मसेवकान् ॥४७१॥ तमूचुः खेचराः स्वामिन् ! देवी येन हृता खलु ! सोऽप्यस्थित खेचरश्चेत् तद् न भक्ष्यो नखिभिर्नखी ॥४७२॥ तं विज्ञाय पुरो दुष्टं यथास्थानं यथाबलम् । प्रभावादेव ते देव ! निग्रहीष्यामहे ततः ॥४७३॥ कुमारोदेशतो विद्याधरमेकमथोद्धरम् । तस्मिन् पवनगत्याख्यं प्रेषयामासुराशु ते ॥४७४।। त्रिभिर्दिनैरसौ सर्वं विज्ञायाचूलमूलतः । विज्ञो विज्ञपयामास कुमारं प्रकृताञ्जलिः ॥४७५॥ स्वामिन् ! समस्ति वैताढ्यस्योत्तरश्रेणिभूषणम् । चक्रवालोत्तरपदं नगरं रथनूपुरम् ॥४७६॥ देवी तत्स्वामिनाऽनङ्गतिना खेचरेन्दुना । वैदेही रावणेनेव हृता तेन हतात्मना ॥४७७॥ देवी तु वीतमालिन्या सहकारलतागृहे । तत्रास्ति तद्गुहोद्यानमध्ये विद्याधरीधृता ॥४७८॥ मया साऽदर्शि देवस्य नाममन्त्राक्षरावलीम् । जपन्ती निजमोक्षाय योगिनीव वियोगिनी ॥४७९॥ निशम्येति कुमारोऽथ विश्वभूतिमलोकत । सोऽब्रवीद् देव ! दूतोऽस्मै प्रेष्यते स्वार्थसिद्धये ॥४८०॥
15