________________
[४७१
गुणानुमोदनाद्वारे विलासवतीकथा]
अत्रान्तरे परेऽप्येत्य विद्याधरचमूचराः । कुमारं नूतनादित्यमुदयन्तमिवानमन् ॥४५७॥ कुमारोऽत्र क्षणे वामभुजस्पन्दचमत्कृतः । ऊचे विद्याधरै राज्याभिषेको देशहेतवे ॥४५८॥ कुमारोऽथाब्रवीदेतान् धैर्यात् प्रीतमना इव । भवत्वेवं परं विश्वभूतिमाह्वयतेह नः ॥४५९।। ततोऽसौ शब्दितो नोचे वीक्षितोऽदृश्यतापि न । कुमारेणाथ तं द्रष्टमुत्पते सह खेचरैः ॥४६०॥ ततो दृष्टः कुमारेण विश्वभूतिभ्रंमन् वने । स च विद्याधरान् दृष्ट्वा साक्षेपमिदमब्रवीत् ॥४६१॥ अरे विद्याधराः ! प्राणवल्लभां सुहृदो मम । हा विलासवती हृत्वा क्व प्रयास्यथ सम्प्रति ? ॥४६२॥ तन्निशम्य कुमारोऽथाचिन्तयत् किं हृता प्रिया ? । निष्फलो मन्दभाग्यस्य प्रयासस्त सौ मम ॥४६३।। नीचैर्भूय कुमारेण विश्वभूतिरभाष्यत । स तु तं विटपेनाहन् तेन घातोऽस्य वञ्चितः ॥४६४॥ आच्छिद्य विटपं हस्तात् पुनरप्येष भाषितः । कुमारं प्रत्यभिज्ञाय मुक्त्वा संरम्भमब्रवीत् ॥४६५।। देव ! त्वया समारब्धे विद्यासाधनकर्मणि । प्राप वैद्याधरं वृन्दं मया तदवधीरितम् ॥४६६।। क्षणार्धेन ततोऽश्रौषं देव्याः क्रन्दितमुच्चकैः । साशङ्कस्तामपश्यं च विद्याधरविमानगाम् ॥४६७।। हा आर्यपुत्र ! हा विश्वभूते ! त्रायस्व मामिति । श्रुत्वा च क्रन्दितं तस्या गुहां गत्वा न्यभालयम् ॥४६८॥