________________
४७०]
[विवेकमञ्जरी
10
कुमारोऽभिदधे देवि ! मुञ्च मां मुञ्च रक्ष मा । यशः सारमसारेणार्जयन्तं वपुषाऽमुना ॥४४५॥ "अथाह देवि विरम वत्स ! साहसतोऽमुतः । मया परीक्षितो धर्म नियूंढोऽसि च सर्वथा ॥४४६॥ अहो स्थैर्यमहो धैर्यमहो वीर्यमहो महः । अहो ते वत्स ! गाम्भीर्यमहो ते धर्मशीलता ॥४४७॥ तवाहं भक्तितः सत्त्वयुक्तितः सुकृतोक्तितः । तुष्टास्मि सर्वथेत्युक्त्वा ततो देवी तिरोदधे" ||४४८॥ अथाश्रौषीत् कुमारः खे भेरीभाङ्कारभासुरम् । हयानां हेषितं हस्तिबृंहितं किङ्किणीक्वणम् ॥४४९।। यावत् पश्यति विस्मेरदृगसौ विस्मितो नभः । तावद् विद्याधरचमूमागच्छन्तीलोकत ॥४५०॥ चत्वारः पुरतः कान्तहृद्या विद्याधरास्ततः । आगत्यामुं नमस्कृत्य कुमारमिदमभ्यधुः ॥४५१॥ देव ! सद्गुणवित्ताढ्यवैताढ्यगिरिमण्डपम् । समस्ति दक्षिणश्रेणौ पुरं गगनवल्लभम् ॥४५२।। तत्र विद्याधराधीशोऽजनिष्ट कनकध्वजः । अपुत्रः पञ्चतां दैवप्रपञ्चादयमासदत् ॥४५३|| ततोऽजितबलादेवी स्वामिशोकविसंस्थुलान् । राज्यप्रधानानादिक्षदेत्य स्वप्नान्तरद्य नः ॥४५४।। सनत्कुमारनामा यः क्षत्रियाणां शिरोमणिः । मलयेऽस्ति स वः स्वामी मया दत्तोऽभितुष्टया ॥४५५।। देव्यादेशादिति स्मेरमुदो वयमिहागताः । राज्यं वैद्याधरं चैतत् त्वच्यायाति स्वयंवरम् ॥४५६॥
20