________________
गुणानुमोदनाद्वारे विलासवतीकथा ]
निर्दम्भकुम्भकस्यास्य प्रणवोच्चारपूर्वकम् ।
स्वाहान्तं कुर्वतो होमं यावत् कालः कियानभूत् ॥४३३॥ तावत् क्रमेण मत्तेभपिशाचीप्रलयाम्बुदैः । वेतालराक्षसीभिश्च समभूवन् बिभीषिकाः || ४३४॥ समस्ता आपि ताश्चण्डवात्या इव सुमेरुणा । असह्या अप्यसह्यन्त कुमारेण प्रकम्पिना ॥ ४३५॥ ततो यामावशेषायां त्रियामायां ववौ मरुत् । होमे समर्थितप्राये कुसुमामोदमेदुरः ॥४३६॥ पुष्पवृष्ट्या समं दिष्ट्याऽभवज्जयजयध्वनिः । उद्द्योतश्च शरज्ज्योत्स्ना सपिण्डः समजायत || ४३७॥ किन्नरैर्गीयमानाऽथ स्तूयमानाऽमरीजनैः । राजमानाऽऽतपत्रेण वीज्यमाना च चामरैः ॥४३८|| प्रसाददृष्टिं पीयूषवृष्टिं तत्र वितन्वती । प्रत्यक्षाऽभूत् कुमारस्य किलाजितबला स्वयम् ॥४३९॥ होमशेषं समाप्याथ कुमारः प्रणनाम ताम् । देवी तु प्राह तं वत्स ! यच्छ मे यत् समीहितम् ॥४४०॥ व्यजिज्ञपदयं देवि ! किं तत्, भूयोऽपि साऽवदत् । द्वात्रिंशल्लक्षणा नारी नरो वा तस्य जाङ्गलम् ॥४४१॥ स प्राह नाहमातन्वे मातः ! स्त्रीघातपातकम् । मनसापि न हिंसामि पुमांसं च निरागसम् ॥४४२॥ द्वात्रिंशल्लक्षणोऽहं चेत् तद्रादिश यथेप्सितम् । किमनेन शरीरेण रक्षितेन विनाशिना ? ||४४३॥ एवमस्तित्वति देव्युक्ते कुमारः पुलकं वहन् । वह्निकुण्डे पतन् देव्या स्वेनाह्नाय धृतः करे ||४४४॥
[ ४६९
5
10
15
20