SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 ४६८ ] इतस्तृतीये दिवसेऽश्रौषमेकतपस्विना । तव व्यतिकरं कथ्यमानं कुलपतेः पुरः ||४२१|| कथान्ते मे सखा सैष इत्यापृच्छ्य मुनीश्वरम् । अयां मनोरथपूरं शिखरं त्वत्प्रवृत्तये ॥४२२॥ दृष्टो विद्याधरस्तत्र पृष्टोऽशंसत कथां तव । त्वामन्विष्यंस्ततोऽप्यत्रागमं मित्रासि वीक्षितः ॥४२३॥ कुमारोऽचिन्तयद् विद्यासम्पदा भाव्यमेव मे । विश्वभूतिरकाण्डेऽसावागतः कथमन्यथा ? ॥४२४|| ततो न्यवेदयद् विद्यासम्पत्ति विश्वभूतये । स प्रीतः प्राह सपदि सम्पादय समीहितम् ॥ ४२५॥ $$ ततस्तत्रैव शिखरे शेखरः सत्त्वशालिनाम् । यथाविधि व्यधत्तासौ पूर्वसेवां समाहितः ||४२६ ॥ षण्मासपूर्वं सेवान्ते स विलासवतीं जगौ । विद्यासिद्धिफलं विद्धि देव्यहोरात्रमध्यतः ॥४२७।। तत् त्वया नातिदूरेऽत्र स्थेयं गिरिगुहागृहे । विषोढकष्टयाऽद्यैकं सोढव्यं कष्टमस्ति च ॥ ४२८ ॥ श्रुत्वेत्याकृतनिस्यूतहृद् विलासवती सती। जगाद तव पूर्यन्तामार्यपुत्र ! मनोरथाः ||४२९|| ततस्तामुचितस्थाने विनिधाय प्रमोदभाक् । विश्वभूतिं दृढीकृत्योत्तरसाधकमात्मनः ॥४३०|| स्थण्डिले स्थापयित्वाऽग्रे स्वस्याजितबलामथ । विमण्ड्य मण्डले होमकुण्डमुद्दण्डपावकम् ॥४३१॥ मुद्रामष्टाङ्गमासूत्र्य कृतासनपरिग्रहः । कुमारो लक्षहोमेनोत्तरसेवामशिश्रियत् ॥४३२॥ विशेषकम् ॥ [ विवेकमञ्जरी
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy