SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारे विलासवतीकथा ] अहो ! विधिपरीणाम इत्याश्चर्यजुषाऽमुना । एत्य तापसवेषेण कुमारः पर्यरम्भि च ||४०९ ॥ किमेतदिति साकूतौ कुमारः सा च तत्प्रिया । तमनंस्तां यथौचित्यमाशशास स तौ पुनः ॥ ४१०॥ ज्ञातः स्वरात् कुमारेण विश्वभूतिरसाविति । हर्षाश्रु मुञ्चता चास्मै मुमुचे पल्लवासनम् ॥४११॥ चक्रे विलासवत्या तु तदंड्रिक्षालनं मुदा । भोजनानन्तरं चैष कुमारेणेति भाषितः ॥४१२॥ वयस्य ! कतयाम्भोधिः कथं तीर्णस्त्वया तदा ? | तापसत्वं कथं प्राप्तं, साम्प्रतं च कुतो भवान् ? ॥४१३ ॥ इति पृष्टः कुमारेण विश्वभूतिरदोऽवदत् । याने देव ! भग्ने प्राप्यैकं फलकं मया ॥ ४१४॥ तेनाब्धिपञ्चरात्रेण तीर्थमलयमासदम् । कूलागतेन दृष्टोऽहमथैकेन तपस्विना ॥४१५॥ नीतस्तेनाश्रमं तत्रानमं कुलपतिं ततः । भोजनान्तेऽमुना पृष्टस्तस्मै सर्वं न्यवेदयम् ॥४१६॥ ततः कुलपतिः प्रोचे वत्सेदृग्भवविप्लवम् । विलोक्य मुनयो भेजुस्तदातङ्काऽवनं वनम् ॥४१७॥ इति श्रुत्वा मया दीक्षां याचितोऽयं जगौ पुनः । वत्सोचितमिदं किन्तु जीवत्येव सखा तव ॥४१८॥ मिलिष्यति स ते प्राप्तकालमत्रैव तिष्ठ तत् । तपस्विजनशुश्रूषापरश्च समयं क्षिप ॥ ४१९॥ ज्ञानिनोऽस्य गिरा जातप्रत्याशस्तव दर्शने । अस्थामहमिहैवेयत्कालं सालम्बनव्रतः ॥४२०॥ [ ४६७ 5 10 15 1 20
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy