SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ४६६] [विवेकमञ्जरी तस्या विपत्तिभीताभ्यामावाभ्यामुपगृह्य सा । आनीय मलयप्रस्थे मुक्ता श्रीखण्डमण्डिते ॥३९७।। मूच्छितेव क्षणं स्थित्वौत्तस्थौ सभयवेपथुः । हा आर्यपुत्र हा आर्यपुत्रेति प्रलयपन्त्यसौ ॥३९८।। ततश्च भणिताऽऽवाभ्यामलं सुन्दरि ! ते भिया । क्वार्यपुत्रस्तवेत्येषाऽऽचख्यावस्ति गतोऽम्भसे ॥३९९॥ ततो गवेषितोऽस्माभिर्न दृष्टः क्वचिदप्यसौ । सा तु तन्नामलग्नाऽऽस्ते तदादि त्यक्तभोजना ॥४००॥ इति श्रुत्वा तयोर्वाचं विद्याधरपुरन्दरः । कुमारमभ्यधाद् भद्र ! जानीहि तव सा किमु ? ॥४०१॥ विद्याधरद्वितीयोऽथ कुमारस्तत्र यातवान् । लतामिवाब्दः स्वाभावक्लान्तां कान्तां ददर्श च ॥४०२॥ आश्वास्य प्रीणयित्वात्मदर्शनेनाऽशनेन च । तामानयत् कुमारोऽथ चक्रसेनस्य संनिधौ ॥४०३॥ चक्रसेनोऽभ्यधाद् भद्र ! किं नु कुर्मः प्रियं पुनः ? । कुमारस्त्वाह देवातः परमप्यस्ति किं प्रियम् ? ॥४०४॥ चक्रसेनोऽब्रवीद् भद्र ! तथाप्यातिथ्यमस्तु ते । विद्याऽजितबला नाम साधिता खेचरत्वदा ॥४०५।। ततोऽचिन्ति कुमारेण ज्ञानिदृष्टमिदं पुरा । किञ्च मान्यो महात्मैष निरुपध्युपकारकः ॥४०६।। चिन्तयित्वेति तद्दतां विद्यामयमुपाददे । साधनोपायमाख्याय चक्रसेनो जगाम च ॥४०७।। स विद्यासाधकं कञ्चिच्चिन्तयन्नस्मरद् हृदि । विश्वभूतिं तदा यावत् तावदागात् कुतोऽप्ययम् ॥४०८॥ 15
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy