________________
[४६५
10
गुणानुमोदनाद्वारे विलासवतीकथा]
महापुरुष ! यद्येवः तत् ते भवतु मङ्गलम् । भवताऽऽश्वासितो भूम्नो निवृत्तोऽकुशलादहम् ॥३८५।। तत् तिष्ठ त्वमिहैवाहं याम्यन्वेष्टुं पुनः प्रियाम् ।
खेचरोऽभिदधे मा गा भलिष्ये सर्वमप्यहम् ॥३८६।। तथेति वचनं तस्य कुमारो बह्वमन्यत । हत्तापेन समं तस्य तपनोऽस्तमितस्तदा ॥३८७॥ अर्धरात्रे ततो गीयमानमङ्गलमुञ्चकैः । विद्याधरविमानं खं द्योतमानं समागमत् ।।३८८|| ससंभ्रममथोत्थाय कुमारं खेचरोऽवदत् । स्वामिनः सिद्धविद्यस्य पश्य भोः ! स्फातिमद्भुताम् ।।३८९।। पश्यतोरेतयोश्चक्रसेनविद्याधरेशितुः । सैन्यं वहद् बहुव्योमपथेनागाद् यथेप्सितम् ॥३९०॥ विभातेऽथ तमादाय स निर्वृतिकरे तटे । गत्वा विद्याधरोऽनंसीच्चक्रसेनं निजेश्वरम् ॥३९१॥ अथो कुमारवृत्तान्तमुपविश्य न्यवेदयत् । खेचरश्चक्रसेनस्तु कुमारमिदयभ्यधात् ॥३९२।। महापुरुष ! संतापमादधीथा मनागपि । अद्य संपादयिष्यामि नियतं दयितां तव ॥३९३।। अत्रान्तरे समायान्तमद्वयं खेचरद्वयम् । चक्रसेनं प्रणम्योपविश्यं चेति व्यजिज्ञपत् ॥३९४।। देवादेशेन जन्तूनां हिंसारक्षाकृतेऽभितः । भ्रमन्तौ प्रतिकान्तारमद्राक्ष्वैकत्र कानने ॥३९५।। उत्तरीयं विमुच्याजगरात् त्रस्तां वराङ्गनाम् । हा आर्यपुत्र हा आर्यपुत्रेति च विलापनीम् ॥३९६।। युग्मम् ।।
15
20