________________
४६४]
[विवेकमञ्जरी
न सर्वकामदं तीर्थमन्यदस्ति जगत्त्रये । दान-शील-तपो-भावमयं धर्मं विना सखे ! ॥३७३॥ अनेन तदलं भ्रातः ! संरम्भेण निवेदय । कथं कदा वियोगस्ते जायया समजायत?" ॥३७४।। अथाजगरवृत्तान्तं कुमारोऽस्मै महात्मने । त्रिदिनीपरतः पङ्क्तियोजनान्ते न्यवेदयत् ।।३७५।। अथाह खेचरस्तर्हि विषादेन कृतं कृतम् । न विपन्नैव ते कान्ता, कुमारोऽभिदधे कथम् ? ॥३७६।। खेचर: प्राह मित्रास्ति विद्याधरनरेश्वरः । चक्रसेनाभिधः शक्रसमः साम्राज्यसम्पदा ॥३७७॥ प्रारभ्यताप्रतिचक्राधिविद्यायास्तेन साधनम् । विश्रुताऽस्य कृता पूर्वसेवा द्वादशमासिकी ॥३७८।। इदानीमष्टचत्वारिंशद्योजनभुवोऽन्तरे । क्षेत्रशुद्धि विधायात्र सप्ताहोरात्रमङ्गिनाम् ॥३७९॥ हिंसारक्षां समादिश्य राज्यं विन्यस्य मन्त्रिषु । मलयाद्रिगुहां सिद्धिनिलयां सिद्धयेऽविशत् ॥३८०॥ युग्मम् ।। मन्त्रजापं च तस्यात्र कुर्वतः सार्धलाक्षिकम् । सप्ताहोरात्रमापूर्णं सहास्माकं मनोरथैः ॥३८१॥ इयन्मात्रे ह्यतः क्षेत्रे वेद्मि ते न मृता प्रिया । यतो विद्याधराः स्वामिकार्येऽभुवन् कृतोद्यमाः ॥३८२॥ कुमारोऽचिन्तयद् युक्तियुक्तमस्य वचः खलु । तत्प्रावृतपटस्यैवोगिरणं कथमन्यथा ? ॥३८३॥ कथं वा ग्रस्तसत्त्वस्य तस्याहे: कुण्डलक्रिया ? । चिन्तयित्वेति तेनोचे मुदितेन स खेचरः ॥३८४।।
15
20