________________
गुणानुमोदनाद्वारे विलासवतीकथा ]
सर्वदुः खक्षयोपायं धर्मकर्मैकमाश्रय ।
यदकृत्वा मृतोऽप्यङ्गी स्वार्थमङ्गीकरोति न" ॥३६१॥ कुमारोऽभिदधे सत्यं भगवन् ! भवतो वचः । परं प्रियावियोगार्त्तो धर्तुं प्राणान् सहे न हि ॥३६२॥
तदुपायं त्वमाख्याहि ध्रुवं मृत्यूद्यतस्य I लभे प्रियतमां यस्मात् परलोकगतामपि ॥३६३॥ मुनिर्बभाषे यद्येलमस्त्यस्मिन् मलयाचले । तीर्थमेकं तटं तस्मात् पतनं सर्वकामदम् ॥३६४॥ ततोऽसौ मुनिसंदिष्टवर्त्मनाऽगात् त्रिभिर्दिनैः । तत्रारुह्य प्रियावाप्तिकामः पतनमातनोत् ॥३६५॥ दृष्टश्च निपतन् विद्याधरेणैकेन तत्क्षणात् । महाप्रमाद इत्युच्चैर्जल्पता धारितश्च सः ॥३६६॥ श्रीखण्डवनखण्डे च नीत्वा स्वस्येव भाषित् । भो महासत्त्व ! ते कर्म किमिदं पामरोचितम् ? ॥३६७|| किं चात्र कारणं भ्रातः ! कथ्यं चेत् कथयस्व तत् । कुमारोऽभिदधे मित्र ! किमकथ्यं भवादृशाम् ? ॥३६८॥ प्रियवियोगतो मृत्यूद्यतस्य मुनिना मम । न्यवेदि भृगुपातोऽयं परत्रापीष्टमेलकृत् ॥३६९॥
" श्रुत्वेतीषद् विहस्याह कुमारमथ खेचरः ।
अहो स्नेहविमूढानां न किमप्यस्ति दुष्करम् ॥३७०॥ आधिबीजमसौ स्नेहः स्नेहः सर्वविपन्मुखम् ।
अविवेकखनिः स्नेहः स्नेहो लोकद्वयीरिपुः ॥ ३७१ ॥
स्नेहमूर्च्छा तदुत्सृज्य पश्य बोधप्रदीपतः ।
कर्माधीनाङ्गिनां क्वापि गतौ किं सङ्गमोऽथवा ? ॥ ३७२ ॥
[ ४६३
5
10
15
20